________________
तजसस्यानादि
तायां मतभेदः
सूत्र ४३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२०१ चिदेव भवति । कोपप्रसादनिमित्तौ शापानुग्रही प्रति तेजोनिसर्गशीतरश्मिनिसर्गकरम् , तथा भ्राजिष्णुप्रभासमुद्यच्छायानिर्वतकं संशरीरेषु मणिज्वलनज्योतिष्कविमानवदिति ॥४३॥
.टी.-सर्वस्य चैते इत्यादि भाष्यम् । अशेषसर्वकर्माधाय चेतसि, अवोचत् सूरिः सर्वस्येति, चशब्देनावृत्तौ तैजसकार्मणे समाकर्षत्यनादिसम्बन्धापेक्षे, एवंरूपे एते शरीरके संसारिणो जीवस्य सकर्मकस्य जन्तोर्भवतः । सर्वस्यामवस्थायां न कश्चित् तादृशः प्राणी विद्यते यस्यैते दुःखपञ्जरप्रभवभववर्तिनो न स्त इति । एवं स्वाभिप्रायमुपवाधुना मतान्तरमुपदर्शयन्नाह-एके त्वाचार्या इत्यादि । अन्ये पुनराचार्याः प्ररूपयन्ति-प्रतिविशिष्टनय
वादालम्बनाः सन्तः कामेणमेवैकमनादिसम्बन्धमविच्छिन्नःप्रवाहो भः यस्मात् कर्मणस्तस्मात् तेनैवैकेन जीवस्यानादिः सम्बन्धो भवति
न पुनस्तैजसेनापि, तत्प्रवाहादर्शनात् । किं पुनर्नयवादमुररीकृत्य ते सूरयस्तैजसमपगुवते किमत्र वक्तव्यम् ॥ ननु सुज्ञानमेवेदम् , यो ह्यतीतानागतकालावधिकवस्तुविशेषव्युदासमातिष्ठते वर्तमानक्षणवत्यैव वस्तु वस्तुतामावसतीत्येवमनुसन्धाय प्रवर्तते स खलु प्रकाशनामातिक्रान्तागामिचक्रपरिहारित्वाद् वर्तमानक्षणर्जुसूत्रणादृजुसूत्र इति प्रतीतस्तमपेक्षमाणाः प्रथयन्ति-तैजसं तु लब्ध्यपेक्षं भवतीत्यादि । तुशब्दोऽवधारकः तैजसं लब्ध्यपेक्षमेव भवति-सत्तामासादयति, सा च तैजसलब्धिर्विशिष्टतपोनुष्ठानादिभिः साधनैः कस्यचिदेव भवति न सर्वस्य जन्तोस्तत्साधनकलापविमुखस्य, स च तद्योग्यसाधनसमासादिततेजोलब्धिस्तेजोनिसर्गमातनोति, क्रोधावेशादरुणलोचनश्चलत्कपोलाधरपुटः कृशानुपुञ्ज इव दुष्प्रेक्ष्यः क्षमावनितया दुर्भग इवातिदूरमपास्तः शापप्रदानं प्रति कृताध्यवसायः स्फुलिङ्गमालाकुलमत्युष्णतेजः प्रयत्नविशेषात् तथा मुञ्चति गोशालादिवद येन परस्तदैव भस्मसाद् भवति, तथा मनःप्रसादावेशादनुकम्पया वाऽनुग्राह्यपक्षं प्रति प्रल्हादकारिणममृतकल्पं तेजोविशेषमनुष्णदीधितिवद विधूतसकलपरितापतिमिरराशिमनुग्रहप्रवणमानसं क्षिपति येनाशु सुखास्वादविनिमीलितलोचनोऽपूर्व इव जायते, यथा च भगवतैवोष्णलेश्यापरीताङ्गयष्टिगोशालकलिरनुगृहीतः शीततेजोनिसर्गेण, क्रोधप्रसादौ निमित्तं ययोः शापानुग्रहयोस्तौ क्रोधप्रसादनिमित्तौ शापानुग्रहावभिमुखीकृत्य तेजोनिसर्ग करोति । हतस्त्वं दग्धस्त्वमित्येवमादि क्रोधाविष्टवचनं शापः। कदाचिद् वा बाह्यनिमित्तापेक्षमन्त:कर्मापि परिणमते येनायं काणः कुण्ठः कुब्जो वा भवतीति सोऽपि शाप एवावगन्तव्यः । अतः क्रोधनिमित्तशापप्रदानाभिमुख उष्णतेजोनिसर्ग करोति । प्रसादनिमित्तानुग्रहाभिमुखः शीतरश्मिनिसर्गकरो भवति । शीता रश्मयो यस्य निसृज्यमानतेजोविशेषस्य स शीतरश्मिः, शीतरश्मिश्चासौ निसर्गश्च शीतरश्मिनिसर्गस्तत्करणशीलं
१ तैजसं शरीरेषु' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org