________________
२००
तत्त्वार्थाधिगमसूत्रम्
न च ताभ्यां कदाचित् संसारी विरहित इत्यावेदयन्नाह - सूत्रम् — अनादिसम्बन्धे च ॥ २४२ ॥
भा० - ताभ्यां तैजसकार्मणाभ्यामनादिः सम्बन्ध इति ॥ ४२ ॥
ढी० - अनादिसम्बन्धे च । आदि : - प्राथम्यम्, अविद्यमान आदिर्यस्यासावनादिः, सम्बन्धनं सम्बन्धः, संयोग इत्यर्थः, अनादिः सम्बन्धो ययोः परस्परेण संसारिभिश्च सह ते अनादिसम्बन्धे शरीरके भवतः सुवर्णधातुपाषाण संयोगवदाकाशपृथिव्यादिसंयोगवद् वा । चशब्दः सम्बन्धविकल्पार्थः, नैकान्तत एवानादिः सम्बन्धः, किन्तु द्रव्यास्तिकनयावष्टम्भेन तयोरतिदीर्घ कालप्रवाहादविच्छेदवर्ती सकलभविष्यदवस्थान्तरबीजभूतो विचित्र परिणामशक्तिप्रचितपुद्गलद्रव्यैराधीयमानश्चयापचयोऽनादिकपुरुषप्रयत्न निर्वर्त्य - नानारूपकर्मविकाराविच्छेदः सन्तानविशेषस्तदङ्गीकरणेनायमनादिः सम्बन्धः प्रतीयते । आदिमांश्च पर्यायनयवक्तव्यताभ्यन्तरीकृतत्वात् । क्रियत इति कर्म मिथ्यादर्शनाविरतिप्रमादकषाययोगबन्धहेतु सद्भावात् तीव्रमन्दाद्युपपत्तेश्च । प्रतिक्षणमयमुपचीयते पुरुषः कषाययोगाद्यास्रवद्वारवर्ती दृढतरैः कर्मणा यैस्तत् कथमनादिः सम्बन्धो निरूपयितुं शक्येतातिसाह - सिकैरपि, ज्ञानावरणादिकर्मणां च स्थितिकालनियमादवश्यम पूर्वकर्मोपादेयम्, तच्चादिमत्सम्बन्धमेवावधूतशङ्कं प्रतिपद्यध्वम्, अतश्चशब्दो द्रव्यपर्यायास्तिकनयद्वयान्तर्वर्तितामापादयति
तैजसकार्मणयोरनादिः सम्बन्धः
[ अध्यायः २
सम्बन्धस्य ||
अधुना भाष्यानुसृतौ यत्न आस्थीयते - ताभ्यामित्यादि भाष्यम् । ताभ्यामुक्तलक्षणाभ्यां तैजसकार्मणशरीरकाभ्यामनादिरकृतकः सन्तत्याऽङ्गीकरणेन संयोगोऽनादेरकृतकस्य जीवस्येति, नहि जीवः केनचिदुत्पादितश्चैतन्यात्मनेति श्रुतिपथमागमद् वचो यो वा मन्येत कृतकमात्मानमुपयोगलक्षणमनादिपारिणामिकभाववर्तिनमपत्रपस्तस्यापि वचनमयुक्तिकमसङ्गतपूर्वापरमिति विद्वद्भिरपकर्ण्यम्, अतोऽनादिस्तदनादित्वात् तैजसकार्मणे अप्यनादिसम्बन्धे विद्वांसः प्रमातुमर्हन्ति, अन्यथा परित्यक्तसकलशरीरकलङ्कस्य मुक्तस्येव केन हेतुना संसारिता स्यादिति १ ॥ ४२ ॥
अथैते अनादिसम्बन्धे अपि सति किमशेषसंसारिण एव स्त आहोस्वित् कस्यचिदेवेति ? | अत आह—
सूत्रम् - सर्वस्य ॥ २–४३॥
भा०
- सर्वस्य चैते तेजसकार्मणे शरीरे संसारिणो जीवस्य भवतः । एके त्वाचार्या नयवादापेक्षं व्याचक्षते । कार्मणमेवैकमनादिसर्व संसारिणां तैजसकार्मणवत्ता सम्बन्धम् । तेनैवैकेन जीवस्यानादिः सम्बन्धो भवतीति । तैजर्स तु लब्ध्यपेक्षं भवति । सा च तैजसलब्धिर्न सर्वस्य, कस्य१ ' ० नादिसम्बन्धो जीवस्येत्यनादिसम्ब' इति घ-पाठः । २ रुपकर्ण्य इति ख- पाठः ।
<
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org