________________
सूत्रं ४१] स्वोपज्ञभाष्य टीकालंकृतम्
१९९ त्वेनानन्तगुणे भवतः। एतदेव स्फुटीकरोति-आहारकात् तैजसं प्रदेशतोऽनन्तगुणम्, आहारकशरीरयोग्यस्कन्धोऽनन्ताणुकोऽन्यैरनन्तपरमाणुप्रचितस्कन्धैरनन्तैर्गुणितस्तैजसशरीरग्रहणयोग्यो भवति । प्रदेश इति प्रदेशैरनन्ताणुकैरनन्तैः अनन्तगुणमिति च फलमेव निर्दिष्टमाचार्येण, अनन्तो गुणबहुत्वं यस्य तदनन्तगुणम्, अस्माच्च फलनिर्देशात् ज्ञायतेऽनन्तैः स्कन्धैगुणितं सदनन्तगुणं भवति, अन्यथा प्रदेशैरनन्तैरिति दुर्लभं स्यात् । एवमसङ्ख्येयगुणमपि वाच्यम्, तथा तेजसात् कार्मेणमनन्तगुणमिति तैजसशरीरयोग्यः स्कन्धोऽन्यैरनन्ताणुकैः स्कन्धैर्गुणितः कार्मणशरीरयोग्यो भवति ॥ ननु चार्थे तैजसं कार्मणं चान्तरा भाषाप्राणापानमनोयोग्यवर्गणा निर्दिष्टास्ततः क्रमवृद्धः स्कन्धराशिर्मनोग्रहयोग्यकार्मणस्य निर्दिष्टः, इह तु तैजसादनन्तरमेवेत्येतत् कथम् ? उच्यते-न कश्चिद् विशेषः तेजसादारभ्य यावन्मनस्तावत् क्रमवृद्धयान्तरालेऽनन्ता एव स्कन्धा भवन्ति, पुनस्तत्राप्येकाणुकादिप्रक्षेपादनन्ताः कार्मणयोग्यास्तदेवानन्तगुणत्वम् , इह तु पुनर्न स क्रम आश्रितः, किन्त्वनन्तस्कन्धगुणः स राशिः कार्मणयोग्य आख्यात इति, अतः स एवायं मषीम्रक्षितकुर्कुटाभोर्पणविशेषो मा विप्रतिपस्थास्त्वमिति ॥ ४०॥ अयं चान्यो विशेषोऽन्यशरीरेभ्यस्तयोर्यदुत
सूत्रम्--अप्रतिघाते ॥ २-४१ ॥ भा०-एते वे शरीरे-तैजसकामणे अन्यत्र लोकान्तात् सर्वत्राप्रतिघाते भवतः ॥ ४१॥
टी-एते वे शरीरे इत्यादि भाष्यम् । एते अनन्तरसूत्रप्रस्तुते प्रत्यक्षासने, द्विशब्दोपादानमत्र प्रथमावहुवचनाशङ्काच्यावृत्त्यर्थम् । विशरणधर्मत्वाच्छरीरे द्वित्वं विशेषप्रतिपत्त्यर्थम् । तैजसकामेणे जीवाजीवाधारक्षेत्रं-लोकस्तस्यान्तोऽवसायस्तमाल्लोकान्तादन्यत्र लोकान्ते हि प्रतिहन्येते, ते गतिस्थितिहेतुधर्माधर्मद्रव्याभावात्
तदुपग्रहाद् हि जीवानां पुद्गलानां च गतिरुपजायते जलचराणामिव तैजसकार्मणयोरप्रतिघातिता
- जलद्रव्यापेक्षे, अन्यत्र तु सर्वस्मिन् लोके न तयोः प्रतिघातः कचन
विद्यते मूर्तत्वेऽपि हि तयोरतिसूक्ष्मत्वात् सर्ववर्त्मसु गतेः प्रतिघातासम्भवः सदाचारमुनिवत्, ते अपि न किञ्चित् प्रतिहतस्नेहगिरिजलधिवलयद्वीपपातालनरकविमानप्रस्तरानपि भिन्दती जातेऽक्षतस्वरूपे वज्रवन्न जातुचित कुण्ठतामनुवाते । न खलु लोहपिण्डमाविशन्तस्तेजोऽवयवाः परिस्फुरन्मूर्तयोऽपि कयाचिदुपपत्त्या निवारयितुं पार्यन्ते तद्विध्मापनायाम्भोवयवाश्च समाहृताः, सूक्ष्मत्वादेवमेव च शरीरके राजवल्लभपुरुषवत् सर्वत्राव्याहतप्रवेशनिर्गमे प्रतिपत्तव्ये इति ॥ ४१ ॥
१“पेक्षेत्यन्यत्र ' इति के-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org