________________
१९८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ दी-तेषां शरीराणामित्यादि भाष्यम् । तेषामित्यौदारिकादीनामनन्तरसूत्रात् परं परमित्येतदनुवर्तते, अभिसम्बध्नाति भाष्यकारः परं परमेव, एवशब्दस्तमेव क्रमनियममवद्योतयति परं परमित्यमुमेव क्रममङ्गीकृत्यासङ्ख्येयगुणता विधीयते नान्यथेति । प्रदेशत इति । प्रवृद्धो देशःप्रदेशः, अनन्ताणुकस्कन्धः प्रदेशोऽत्राभिधीयते, एवंविधैः प्रदेशैः प्रदेशतः "इतरेभ्योऽपि दृश्यन्ते" इति वचनात् असङ्ख्येयगुणं भवति । एतदुक्तं भवति-औदारिकशरीरग्रहणयोग्यो यः स्कन्धोऽनन्तप्रदेश एकः स यदाऽन्यैरनन्ताणुकैः स्कन्धैरसङ्ख्येयैगुणितो भवति तदा वैक्रियग्रहणयोग्यो जायते, एवं वैक्रियग्रहणयोग्योऽनन्तप्रदेशस्कन्धः, एको यदाऽन्यैरनन्ताणुकस्कन्धैरसङ्ख्येयैरभ्यस्तो भवति तदाऽऽहारकग्रहणयोग्यतामेति । प्राक् तैजसादिति मर्यादा दर्शयति, न खलु सर्वेष्वयं क्रमो ग्राह्यः, किन्तु तैजसकामणे विहायाघेषु त्रिषु शरीरेष्वेतदू विधानम् । अमुमेवार्थ स्पष्टतरमाचष्टे भाष्येणामुना
औदारिकशरीरप्रदेशेभ्यो वैक्रियप्रदेशा असङ्ख्येयगुणाः, औदारिकशरीरयोग्यस्कन्धोऽनन्ताणुकोऽपि सर्वस्तोकः, उत्तरस्कन्धापेक्षयाऽनन्तसङ्ख्यायाश्चानन्तभेदत्वात्, अत एक औदारिकयोग्यः स्कन्धो यदाऽन्यैरनन्तप्रदेशस्कन्धैरसङ्ख्येयैगुणितो भवति तदा वैक्रिययोग्य इति पिण्डार्थः। औदारिकशरीरे प्रदेशाः औदारिकशरीरप्रदेशाः अनन्ताणुकाः स्कन्धा इत्यर्थः । न पुनः प्रदेशाः परमाणवो गृह्यन्तेासम्भवात, वैक्रियशरीरप्रायोग्याः प्रदेशाः स्कन्धा जायन्ते असङ्ख्येयैरनन्तपरमाणुप्रचितस्कन्धैरन्यैर्गुणिताः, औदारिकयोग्या ये स्कन्धास्तेऽत्र गुण्यतया विवक्षिताः । बहुवचनमौदारिकशरीरयोग्यस्कन्धबहुत्वापेक्षं वैक्रियस्कन्धबहुत्वापेक्षं चेति । तथा वैक्रियशरीरप्रदेशेभ्य आहारकशरीरप्रदेशा असङ्ख्यगुणा इति, वैक्रियशरीरयोग्यस्कन्धेभ्यः आहारकशरीरयोग्याः स्कन्धा अनन्ताणुभिरसङ्ख्येयैः स्कन्धैगुणिता भवन्ति वैक्रिययोग्याः स्कन्धाः, प्रत्येकमनन्तप्रदेशैरसङ्ख्येयैः स्कन्धैरभ्यस्ताः सन्त आहारकयोग्या जायन्त इति, बहुवचनमत्राप्युभययोग्यस्कन्धबहुत्वापेक्षमिति ॥ ३९॥ ____ अत्राह-पाक तैजसादित्युक्तम् । अथ कः पुनस्तैजसकार्मणयोः स्कन्धप्रदेशनियम इति । अत्रोच्यते
सूत्रम्-अनन्तगुणे परे ॥ २-४० ॥ भा०-परे हे शरीरे-तैजसकामणे पूर्वतः पूर्वतः प्रदेशार्थतयाऽनन्तगुणे तैजसकार्मणयोः भवतः। आहारकात् तैजसं प्रदेशतोऽनन्तगुणम् । तैजसात् प्रदशमानम् कार्मणमनन्तगुणमिति ॥ ४०॥
टी--परे हे शरीरे इत्यादि भाष्यम् । परे इत्युक्तेऽपि द्विशब्दोपादानं सप्तम्याशङ्काव्यावृत्त्यर्थम, द्वित्वमन्यथाऽपि सम्भवतीति प्रतिविशिष्टद्वयप्रदर्शनार्थमाह-तैजसकामणे इति। पूर्वस्मात् पूर्वतः वीप्सया व्याप्तिमादर्शयति-प्रदेशार्थतयेति । अनन्ताणुस्कन्धार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org