________________
सूत्रं ३९] स्वोपनभाष्य-टीकालङ्कृतम्
१९७ टी-तेषाम् , अनन्तरसूत्रोपदिष्टानामौदारिकादीनां शरीराणां परं परं सूक्ष्म वेदितव्यम् । निर्मातत्वादादिशब्दप्रयोगः, औदारिकादीनामन्यार्थवाचित्वमपि सम्भवतीति, अतो विशेषणं शरीराणामिति । विशरणशीलत्वाच्छरीराणि । परं परमिति वीप्सया व्याप्ति दर्शयति, पूर्व पूर्वमपेक्ष्य औदारिकादीनां परं परं सूक्ष्मं सूक्ष्मगुणं द्रव्यं सूक्ष्म तद् यत्रास्ति तत् सूक्ष्मम्, अर्शआदिपाठाच्छरीरम्, अतोऽयमर्थः सूक्ष्मपरिणामपुद्गलद्रव्यारब्धं वेदितव्यम्अवसेयम् । एतेन प्रामाण्याधिकृतं चोद्यमपास्तं भवति, सूक्ष्मत्वादेव च प्रायो वैक्रियादिचतुष्कस्य दर्शनमनुपपन्नम्, इह परिणतिविशेषमङ्गीकृत्य पुद्गलाः केचिदतिस्थूलतया वर्तन्तेऽल्पेऽपि सन्तो भेण्डकाष्ठादिषु, केचिन्निचिततरपरिणामभाजोतिभूयांसोऽपि सूक्ष्मावस्थामासादयन्ति करिदशनादिषु, प्रसिद्धं चैतत् प्रायस्तुलामारोपिते भेण्डदन्तखण्डे प्रमाणतः सदृशे परिणामागतामेति विप्रकृष्टां धियमाधत्ते इति, तदेतत् परिशिथिलां परिणतिमनपेक्ष्य निचिततरां पुद्गलानामन्यथा लाघवं गौरवं वा प्रतिपत्तुमशक्यं तुल्यप्रमाणत्वे सति, अतः पूर्वपूर्वमुत्तरोत्तरापेक्षया शरीरं परिस्थूरद्रव्यारब्धमतिशिथिलनिचयमदभ्रं च भवत्युत्तरं सूक्ष्मं प्रत्यारब्धमतिघननिचयमणु च भवतीति पुद्गलद्रव्यपरिणतेर्वैचित्र्यात् । अमुमेवार्थ भाष्यकारः प्रकाशयन्नाह-तद्यथा-औदारिकादित्यादि । तदेतद् यथा स्पष्टतरं भवति तथा वेद्यते-औदारिकाच्छरीरादू वैक्रियं सूक्ष्मम् , औदारिकमल्पद्रव्यं स्थूलं शिथिलनिचयम्,
__ वैक्रियं बहुतरद्रव्यं सूक्ष्मघननिचयं चेति, अतः सूक्ष्ममुच्यते ॥ ननु चौदादर्शनम् " सूक्ष्मता रिकं योजनसहस्रप्रमाणमुत्कर्षात् वैक्रियं तु योजनलक्षप्रमाणम्, अतः
कथं सूक्ष्ममिति १। उच्यते-यद्यपि प्रमाणतस्तदतिमहदू वैक्रियं तथापि सूक्ष्ममेवादृश्यत्वात् इच्छया तु तत्कर्तुर्दृश्यत इत्यतो नो दोषः, तथा वैक्रियादाहारकं सूक्ष्ममित्यभिसम्बन्धः, सूक्ष्मतरपरिणामपरिणतं बहुतरपुद्गलद्रव्यारब्धमाहारकम् , आहारकात् तैजसं बहुतरद्रव्यमतिसूक्ष्मपरिणामपरिणतं च, तैजसातू कार्मणमतिबहुकद्रव्यप्रचितमतिसूक्ष्मं च भवति, अतः सूक्ष्मताऽऽपेक्षिकी प्रतिपत्तव्या, न सूक्ष्मनामकर्मोदयजनितेति ॥ ३८॥
एवं तावत् कारणानां सूक्ष्मात् परं परं सूक्ष्ममभिहितमतिबहुपुद्गलद्रव्यारब्धमपि प्रचयविशेषात् तत् कथमुत्तरोत्तरेषु बहुतरद्रव्यारब्धमिति ? अत आह
सूत्रम्-प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् ॥ २-३९ ॥ भा० तेषां शरीराणां परं परमेव प्रदेशतोऽसङ्ख्येयगुणं भवति प्राक
तैजसात्, औदारिकशरीरप्रदेशभ्यो वैक्रियशरीरप्रदेशा असशरीरतारतम्यम ङ्येयगुणाः, वैक्रियशरीरप्रदेशेभ्य आहारकशरीरप्रदेशा प्रदेशापेक्षया - असङ्ख्ययगुणा इति ॥ ३९॥
. १'परिमाणतां' इति ग-पाठः। २'मविप्रकृष्टां ' इति क-पाठः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org