SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १९६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः २ कर्मणस्तु सह तेन पूर्वमुत्तरत्र च यथापूर्व मोहक्षयः पश्चाज्ज्ञानावरणक्षय इति, तदेतत् सर्वमुपपत्तिजालमनैकान्तिकम् , अभिन्नकर्मस्वपि दर्शनात् । अन्यच्च ज्ञानावरणादिकर्माष्टकात् पृथक कल्प्यमाने कार्मणे नवमकर्मप्रसङ्गः, कार्यकारणवादाभ्युपगमे वा कर्मकार्मणयोः स्यात् अन्यत्वं स्यात् अनन्यत्वमभ्युपेयमन्यथा वा त एव दीर्घायुषोऽवगच्छन्ति येऽत्रान्यत्वमेकान्तेनाभिनिविशन्त इति । वयं तु ब्रूमः कर्मभिर्निष्पन्नं कर्मसु भवं कर्मसु जातं कर्मैव वा कार्मणमिति न कश्चिद् दोषः प्रक्रियायामाहितनैपुणस्येति ॥ अथैषामौदारिकादीनां किं सर्वपुद्गलद्रव्याण्येव ग्रहणप्रायोग्यानि, आहोस्वित् कानिचिदेवेति ? । उच्यते-न खलु सर्वाणि, किन्तु द्रव्यवर्गणाप्ररूपणक्रमेण कानिचिदेव योग्यानि भवन्ति, तद्यथा-परमाणूनामेका वर्गणा-वर्गोराशिरिति पर्यायाः। द्विप्रदेशानामपि स्कन्धानामेका वर्गणा, एवमेकपरमाणुवृद्धया सङ्ख्येयप्रदेशस्कन्धानां सङ्ख्येयवर्गणाः, असङ्ख्येयप्रदेशस्कन्धानामसङ्ख्येयाः, ततोऽनन्तप्रदेशस्कन्धानामनन्ता वर्गणाः, स्वल्पपुद्गलप्रयोगत्वादयोग्याः समुल्लद्ध्या अनन्ता एवौदारिकशरीरयोग्या वर्गणा भवन्ति, पुनस्तस्यैवाग्रहणयोग्यास्ततोऽनन्ताः अतिबहुपुद्गलात्मकत्वात्, एवमेकैकपुद्गलप्रक्षेपपरिवृद्धया वैक्रियाहारकतैजसभाषाप्राणापानमनःकार्मणानामेकैकस्या योग्या योग्या अयोग्याश्चेति द्रव्यवगंणात्रयमाभावनीयम् , आद्या च अल्पत्वादयोग्या, अन्त्या तु बहुत्वात्, मध्यमा तदनुरूपत्वाद् योग्येति सर्वत्र वासनाऽऽधेया। भाषाप्राणापानमनोग्रहणमत्राप्रस्तुतमपि कार्मणशरीरयोग्यवर्गणाप्रदर्शनार्थमध्यवसातव्यम् । एवं तावत् प्रतिविशिष्टपुद्गलद्रव्यनिर्मापितान्यौदारिकादीनि निश्चितम् ॥ अथेदानीमिदं भाष्यमनुस्रियते-इत्येतानि पञ्च शरीराणि संसारिणां जीवानां भवन्ति, एवमेतानि पश्चैवान्यूनानधिकानि शरीराणीति, शीर्यन्त इति शरीराणीति जीर्यमाणत्वाच्चयापचयवत्त्वाच विशरारुताभाज्येतानि गतिचतुष्टयवर्तिनामेव प्राणिनां यथा सम्भवन्ति, न सिद्धानामिति सामोद् व्युदासः । निज्ञातस्य संज्ञिनः संज्ञेत्यतो न लघ्वपि शरीरग्रहणमादावुपन्यस्तं विशरारुत्वाच्छरीराणि इत्यन्वर्थसंज्ञासिद्धयर्थ न कायग्रहणमाश्रितं लघीयोऽपि । आदावौदारिकं स्थूलाल्पप्रदेशबहुस्वामित्वात् , ततो वैक्रियं पूर्वस्वामिसाधर्म्यात् , ततोप्याहारकं लब्धिसाधात् , ततस्तैजसं सूक्ष्मासङ्ख्येयस्कन्धात्मकत्वात् , ततः कार्मणं सर्वकारणाश्रयसूक्ष्मानन्तप्रदेशत्वादिति ॥ ३७॥ अत्राह-कथं पुनरयं विशेषो निश्चीयते औदारिकादीनामिति ? उच्यते-न्यायाद् वचनाच्च । न्याय उक्तः, वचनं त्विदं यथाक्रमं तेषां पूर्वस्मात् । सूत्रम्--परं परं सूक्ष्मम् ॥ २-३८॥ टी०--तेषामित्यनेन भाष्यकारः सूत्रसम्बन्धमावेदयति भा०-तेषामौदारिकादीनां शरीराणां परं परं सूक्ष्म वेदिशरीराणां परस्परं । महत्त्वाल्पत्वे पर तव्यम् । तद्यथा-औदारिकाद् वैक्रियं सूक्ष्मम्, वैक्रियादाहार कम् , आहारकात् तैजसम् , तैजसात् कार्मणमिति ॥३८॥ १. कादिशरी०' इति घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy