SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १९५ शरीरभेदाः राणां व्युत्प सूत्रं ३७] स्वोपज्ञभाष्य-टीकालङ्कृतम् सूत्रम्-औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ॥२-३७॥ टी–अत्र केचित् सूत्रावयवमवच्छिद्य शरीराणीति पृथक् सूत्रं कल्पयन्ति, अधिकासूत्र-विचारः .. रार्थमतिबहुवाच्यमेतच्छरीरप्रकरणमतोऽधिकार इति, अत्रोच्यते-गौरव " मात्रमपास्यैवमवच्छिन्दानैः सूत्रमन्यन्न किश्चिदाप्तं स्यात् सूत्रपर्यन्ते हि वर्तमानं शरीरग्रहणं नाधिक्रियते पृथगुपन्यस्तमादावधिकाराय जायत इति कात्र युक्तिस्तैराश्रयणीया शरणायेति । भा०-औदारिक, वैक्रिय, आहारकं, तैजसं, कार्मणमित्येशरारमा तानि पञ्च शरीराणि संसारिणां जीवानां भवन्ति ॥ ३७॥ औदारिकादिशरी- टी-औदारिकं वैक्रियमित्यादि । तत्रोदारं बृहदसारं यद् द्रव्यं " तन्निवृत्तमौदारिकमसारस्थूलद्रव्यवर्गणासमारब्धमौदारिकप्रायोग्यपुद्गलग्रहणाकारणपुद्गल विपाक्यौदारिकशरीरनामकर्मोदयनिष्पन्नम् । एवमितरशरीरेष्वपि वैक्रियादिशब्दप्रक्षेपादेष दण्डको वाच्यः। विक्रिया विकारो बहुरूपतानेककरणं तया निवृत्तमनेकाद्धताश्रयं विविधगुणार्द्धसम्प्रयुक्तपुद्गलवर्गणाप्रारब्धं वैक्रियम् । शुभतरशुक्लविशुद्धद्रव्यवर्गणाप्रारब्धं प्रति विशिष्टप्रयोजनायाहियतेऽन्तर्मुहुर्तस्थित्याहारकम् , कुल्ल्युटो बहुलवचनात् । तेज इत्यग्निः, तेजोगुणोपेतद्रव्यवर्गणासमारब्धं तेजोविकारस्तेज एव वा तैजसमुष्णगुणं शापानुग्रहसामाविर्भावनं तदेव यदोत्तरगुणप्रत्यया लब्धिरुत्पन्ना भवति तदा परं प्रति दाहाय विसृजति रोषविषाध्मातमानसो गोशालादिवत्, प्रसन्नस्तु शीततेजसाऽनुगृह्णाति । यस्य पुनरुत्तरगुणलब्धिरसती तस्य सततमभ्यवहृताहारमेव पाचयति, यच्च तत् पाचनशक्तियुक्तं तत् तैजसमवसेयम् । कर्मणा निवृत्तं कार्मणम् , अशेषकर्मराशेराधारभूतं कुण्डवद् बदरादीनामशेषकर्मप्रसवसमर्थ वा यथा बीजमकुसदीनाम् , एषा च किलोत्तरप्रकृतिः शरीरनामकर्मणः पृथगेव कर्माष्टकात् समुदायभूतादित्यतः कर्मैव कार्मणम् । परे नेच्छन्ति स्वार्थप्रत्ययमुपपत्तीश्वाभिदधते, न किल कर्माण्येव कार्मणं ज्ञानावरणादीनां तदाश्रयत्वाच्चक्षुरादिवज्ज्ञानावरणादीनां तदाश्रयभूतकामणमाश्रयत्वेन व्यवतिष्ठमानं कथं ज्ञानावरणादिमात्रमेव स्याद , यथा चक्षुरादीनामौदारिकशरीरमाश्रयकारणमन्यदन्यानि चेन्द्रियाणि तथा कार्मणमपि कर्मभ्योऽन्यद्, यदि च तन्न स्यात् कुण्डभेदाद् बदराणामिवेतस्ततः पतनं स्यात् कर्मणामनिष्टं चैतत् , तस्माद् यदेषामाश्रयकारणं तत् कार्मणं शरीरमिति। उत्पत्तिकारणभेदाच्च पृथक् कर्मभ्यः कार्मणम् , बन्धननामकर्मप्रत्ययं प्रद्ववादिनिमित्तं च कर्मोत्पद्यत इत्याप्तोपदेशः, शरीराणां तु स्वशरीरनामकर्मोदयादुत्पत्चिरतोऽन्यत्वम् , पाकभेदाचान्यत् ज्ञानावरणादि कर्म पच्यमानं मूढताद्युत्पादयति, कार्मणशरीरकारणपाकस्तु कार्मणमेव शरीरमारभते, तस्मादन्यत् पूर्वोत्तरकालं बन्धाविनिवृत्तेश्चान्यत्वं मोहज्ञानावरणादिवत् , अनिवृत्तिस्थाने हि विनिवर्तते बन्धः कार्मणस्य, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy