SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १९४ तत्वार्थाधिगमसूत्रम् अथेदानीमुपपातजन्म विभक्तये सूत्रमाह सूत्रम् -- नारकदेवानामुपपातः ॥ २-३५ ॥ भा०- नारकाणां देवानां चोपपातो जन्मेति ॥ ३५ ॥ टी० - नारक देवानामिति गत्यपेक्षः क्रमव्यपदेशः । अपरे अभिदधते अभ्यर्हितत्वादल्पाच्तरत्वाच्च यदादावाचार्येण देवा न न्यस्तास्तज्ज्ञापयति जन्मनो दुःखहेतुत्वं तच्च प्रकृष्टं किल नारकेष्विति तेषां नारकाणां देवानां च उक्तलक्षण उपपातो जन्म भवति ।। ३५ ।। अधुना सम्मूर्च्छनजन्मविभक्तुकाम आह— उपपातजानां भेदाः [ अध्यायः २ सूत्रम् - शेषाणां सम्मूर्च्छनम् ॥ २-३६ ॥ भा० - जराखण्ड पोतजनारकदेवेभ्यः शेषाणां सम्मूर्च्छनं जन्म । उभयावधारणं चात्र भवति । जंराय्वादीनामेव गर्भः, गर्भ एव संमूच्र्छनजा जीवाः जेराय्वादीनाम् । नारक देवानामेवोपपातः, उपपात एवं नारकदेवानाम् । शेषाणामेव सम्मूर्च्छनम्, सम्मूर्च्छनमेव शेषाणाम् ॥ ३६ ॥ टी० - शेषाणां सम्मूर्च्छनम् । उक्तव्यतिरिक्ताः शेषाः, के पुनरभिहिता जराय्वण्डपोतजनारकदेवा एभ्यः शेषाणां जीवानां पृथिवीजलानलानिलतरुद्वित्रिचतुरिन्द्रियगर्भ - व्युत्क्रान्तिपश्ञ्चेन्द्रियतिर्यङ्मनुष्याणां सम्मूर्च्छनं जन्माभिहितलक्षणं भवति । शेषग्रहणं लाघवार्थमानन्त्यख्यापनार्थे च जन्मभाजां सूरिणाऽकारि । अथवा सामर्थ्यलभ्यं जन्म शेषाणामतः शेषमर्थाद् भविष्यति तस्मादुभयोर्नियमप्रतिपादनायेदं शेषग्रहणमाश्रीयते । योगत्रयमपि चैतजन्मवतां जन्मसङ्करनिवारणार्थमाचार्येण प्राणायीति, अतस्तन्निवारणार्थं परस्परावधारणदिदर्शयिषयाऽऽख्याति - उभयावधारणं चात्र भवति जरांय्वादीनामेव गर्भः, गर्भ एव जराय्वादीनाम् जरावादयो गर्भश्व एतदुभयमस्यावधारणमवच्छेदो भवति । चशब्द एवंशब्दार्थे । उभयावधारणमेव नान्यतरावधारणमनवधारणं वा । प्रथमोपन्यासेन गर्भोऽवधार्यते जरावादयो ऽनवधृतास्तेऽनु पाश्चात्योपन्यासेऽवच्छिद्यन्ते - गर्भ एव जराय्वानामिति । गर्भो जरावादीन् न जहाति, जराय्वादयोऽपि गर्भं न त्यजन्तीति समुदायार्थः । एवमितरत्रापि योगद्वये वाच्यमवहितमानसेन । किं पुनः कारणं येनान्तराले योनिसूत्रमधीतं, न जन्मसूत्रानेन्तरमेव जन्मविभागः कृत इति १ । उच्यते - जन्मनो योनेथ यकत्तकद्वान्तरमित्यस्यार्थस्य ज्ञापनाय जन्मसूत्रानन्तरमेव योनिसूत्रोपन्यास इति ।। ३६ ।। अत्राह - तेषु जन्मसु यथोक्तयोनीनां जीवानां कानि शरीराणि कियन्ति वा किंलक्षणानि वा भवन्तीति १ । अत्रोच्यते १' जरायुजादीनाम्' इति घ- पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy