________________
१९३
भेदाः
सूत्रं ३४ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् यावत्यो जातयस्तावभेदा योनयोऽपि पृथिवीकायस्येत्यवगन्तव्यम् । न च मूलयोनिमतिवर्तन्ते ताः, किन्तु जातिभेदाद् भिद्यन्त इति, अतः सङ्ग्राहकम् , एवं शेषाणामपि वाच्यम् , स्वजातिभेदापेक्षमेतत् परिमाणमिति ॥ ३३ ॥
___ अत्राह-उक्तं त्रिविधं जन्म, तत्र न संविद्महे तस्य त्रिविधस्यापि जन्मनः के स्वामिन इति, तद्विभागप्रदर्शनायेदमुच्यते
सूत्रम्-जराय्वण्डपोतजानां गर्भः ॥ २-३४ ॥ भा०-जरायुजानां मनुष्य-गो-महिष्यजाविकाश्व-खरोष्ट्र-मृग-चमर-वराह
__गवय-सिंह-व्याघ्रः-दीपि-श्व-शुगाल-मार्जारादीनाम् । अण्डवता जानां सर्प-गोधा-कूकलास-गृहकोकिलिका-मत्स्य-कूर्म-नक्र.
शिशुमारादीनाम् । पक्षिणां च लोमपक्षाणां हंस-चाष-शुकगध्र-श्येन-पारापत-काक-मयूर-मण्डू-बक-बलाकादीनाम् । पोतजानां शल्लक हस्तिश्वाविल्लापक-शश-शारिका-नकुल-मूषिकादीनाम्, पक्षिणां च चर्मपक्षाणां जलूका वल्गुलि-भारण्ड-पक्षिविरालादीनां गर्भो गर्भाज्जन्मेति ॥ ३४ ॥
टी-जराय्वण्डपोतजानां गर्भः । अत्रायं जनिः प्रत्येकमभिसम्बध्यते, जरायुजानां अण्डजानां पोतजानामिति । जरायुनि जायन्ते स्म जरायुजाः-जरायुमध्यगताः, जरायुवेष्टिता इत्यर्थः । जरायुजानां मनुष्य-गो-महिष्यादीनामिति सुज्ञानं भाष्यम् । अण्डे जायन्ते स्माण्डजाः, तेषां अण्डजानां सर्प-गोधादीनामिति भाष्यं सुखावबोधमेव । अण्डजजातिभेदप्रदर्शनायेदं भाष्यम् । पक्षिणां च लोमपक्षाणां हंस-चाषेत्यादि प्रायो गतार्थम् । लोमप्रधानाः पक्षा येषां ते लोमपक्षाः, अपरे लोमपक्षिणामित्यधीयन्ते न तु च मत्वर्थीयोऽतिदुर्लभः स्याद् वा ज्ञापकादेः कथञ्चित् , अथवा पक्षिण एव विशिष्यन्ते, लोमानुगता लोमप्रधाना वा पक्षिणो लोमपक्षिणस्तत्राद्यपक्षिशब्दः पक्षिसामान्यमावेदयति, इतरस्तु व्यवच्छिद्य विशेषेऽवस्थापयतीति । पोता एव जाता इति पोतजाः शुद्धप्रसवा न जरास्वादिना वेष्टिता इतियावत् । अत्र च "अन्येष्वपि दृश्यन्ते" इति वचनाड्डः, अपरे त्वेतच्छब्दव्युत्पत्तिभीत्या जरायवण्डजपोतानां गर्भ इत्यभिधीयते-सूत्रमाहितनैपुण्यास्तत् सर्वथा त एवाक्यन्ति सूरिविरचितन्यासमन्यथाकर्तुम्, वयं तु प्रकृतानुसरणमेव कुर्मः। पोतजानां शल्लकादीनामित्यादि भाष्यमतिस्फुटत्वान विवियते । पक्षिणां च चर्मपक्षाणामित्यादि । अत्रापि पूर्ववद् व्याख्या कार्या, शेषमतिस्पष्टमेव । गर्भो जन्मति उक्तलक्षणमेषां प्राणिनामशेषाणां गर्भो जन्म भवतीति ॥ ३४ ॥
१ 'मद्' इति घ-पाठः। २'गर्भो जन्मेति' इति घ-पाठः। ३'अत्र च''तत्तु च' इति पाठौ विचारणीयौ। ४ 'अभिदधते' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org