SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १९२ तत्वार्थाधिगमसूत्रम् [ अध्यायः २ नारकादिषु अपरे वर्णयन्ति - असृक् सचेतनं शुक्रमचेतनमिति अन्ये ब्रुवते - शुक्रशोणितमचितं योनिप्रदेशः सचित्त इत्यतो मिश्रा | त्रिविधाऽन्येषामिति । देवनारकगर्भव्युत्क्रान्तितिर्यङ्मनुष्यव्यतिरिक्तानां सम्मूर्च्छनजन्मनां तिर्यग्मनुष्याणामित्यर्थः । तेषामनियमेन कदाचित् सचित्ता कदाचिदचित्ता कदाचिन्मिश्रेति, यथा गोकृम्यादीनां सचित्ता, काष्ठघुणादीनामचित्ता, केषाञ्चित् पूर्वकृतक्षते समुद्भवतां मिश्रेति ॥ अधुना शीतादित्रिकं विभजते-- गर्भजन्मनां देवानां च शीतोष्णा गर्भव्युत्क्रान्तीनां तिर्यग्मनुष्याणां देवानां चोभयस्वभावा स्वभावादेव जायते, देवानां साधारणा सुखबहुलत्वात् क्षेत्रानुभावाच्च, तेजसः उष्णाऽत्यन्तप्रसिद्धैव । त्रिविधाऽन्येषाम् । अन्येषामिति गर्भव्युत्क्रान्तितिर्यग्मनुष्यदेवतेजोव्यतिरिक्तानां सम्मूच्छेनजन्मतिर्यग्मनुष्यनारकाणाम्, सम्मूर्च्छनजतिर्यग्मनुष्याणां कस्यचिच्छीता कस्यचिदुष्णा कस्यचिदुभयस्वभावा, स्थानविशेषादिति, नारकाणामाद्ये पृथिवीत्रये योनि विभागः प्रकृष्टष्णा, चतुर्थ्यां कचिन्नरके शीता कचिदुष्णा तथा पञ्चम्याम् । कथं पुनर्भिन्नाधारोभयस्वभावा स्यात् ? उच्यते - एकस्यां पृथिव्यामुभयमस्तीति न भिन्नाधारत्वम् || ननु तत्रापि नारकभेदवर्तित्वादनुभयस्वभावत्वमेवेति ? उच्यते - चतुर्थपश्चमपृथिवीनारकाणामुभयस्वभावेति सामान्याभिधानाददोषः । पाश्चात्ययो - द्वयोः प्रकृष्टशीता, न त्वेषां साधारणाऽस्ति दुःखात्मकत्वात्, यद्यप्यविशेषेणोक्तं त्रिविधान्येषामिति तथापि यथासम्भवमत्र विभागः । संवृतादित्रयविभागार्थमाह- नारकै केन्द्रियदेवानां संवृता । नारकाणां पृथिव्यप्तेजोवायुवनस्पतीनां च सहदेवानां सङ्कटा, प्रच्छन्नेत्यर्थः । नारकाणां वज्रमयनरककुड्यव्यवस्थितत्वात् सङ्कटा सती प्रवर्धमानवपुषामतिदुःखा, देवानां पुनः (प्रच्छेन्ना अपि ) प्रच्छदपटदेवदूष्यान्तरालवर्तिनी समुच्छ्वसच्छरीरभाजां सोच्छ्वासत्वादेव न दुःखा, पृथिव्यादीनां केषांचित् कथञ्चिदवगन्तव्या । गर्भजानां मिश्रा गर्भव्युत्क्रान्तितिर्यग्मनुष्याणां संवृतविवृता सकुटप्रकाशेत्यर्थः । विवृताऽन्येषां नारकैकेन्द्रियदेवगर्भ व्युत्क्रान्तितिर्यङ्मनुष्यव्यतिरिक्तानां सम्मूर्च्छ नजद्वीन्द्रियादितिर्यङ्मनुष्याणामित्यर्थः । तेषां विवृता, अतिप्रकाशत्वात् ॥ अथ कथं योनिलक्षाणामशीतिचतुरुत्तरा प्रतिजाति प्रतिपादिता प्रवचने ? । तद् यथा - पृथिव्यप्तेजोवायूनां प्रत्येकं सप्त सप्त योनिलक्षाः, प्रत्येकवनस्पतीनां दश, साधारणानां चतुर्दश, द्वित्रिचतुरिन्द्रियाणां प्रत्येकं जीवयोनिसंख्या द्वे द्वे लक्षे, शेषतिर्यङ्नारकदेवानां प्रत्येकं चतस्रश्चतस्रो लक्षाः, मनुष्याणां चतुर्दश, इह तु नव योनयः प्रतिबद्धाः सूत्रे तदेतदतिविप्रकृष्टमन्तरालमुपक्षिपति चेतः संशयदोलायामस्माकमतोऽत्राभिधीयतां समाधिः । अयमुच्यते - नव योनय इति सङ्ग्राहकमेतदासां परिसङ्ख्यानमवसेयम्, विस्तरः प्रतिजाति वक्तव्यः, पृथिवीकायस्थ या महिता योनिः सैव स्वजातिभेदापेक्षया सप्तलक्षपरिमाणा भवति शर्करावालुकादिभेदा १ ' विभज्यते ' 'विभजन्ते ' इति -ग-टी-पाठी । २ धनुश्चिद्दितो भागः ग-पाठ एव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy