________________
सूत्र ३३ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
१९१
टी० - अथवाऽयमात्मा पूर्वभवशरीरनाशे तदनु शरीरान्तरप्राप्तिस्थाने यान पुद्गलान् शरीरार्थमादत्ते तान् कार्मणेन सह मिश्रयति तप्तायः पिण्डाम्भोग्रहण
योनिलक्षणम् वच्छरीरनिर्वृत्त्यर्थे बाह्यपुद्गलान् यस्मिन् स्थाने तत् स्थानं योनिस्त
,
त्प्रविभागार्थमिदमुच्यते - सचित्तेत्यादि । संसारे जीवानामित्यादि । अष्टप्रकारकर्मवर्तिनां जन्तूनाम्, अस्य अनन्तरसूत्रनिर्दिष्टस्य त्रिभेदस्य सम्मूर्च्छनादेः । जन्मन इत्यनेन च तद्योनय इति सूत्रावयवार्थमाचष्टे, तस्य जन्मनो योनयस्तद्योनय इति एताः सचित्तादयः, एता इति प्रत्यक्षासन्नाः सचित्तशीत संवृतास्तिस्रः सप्रतिपक्षाः, सह प्रतिपक्षैरचित्तोष्णविवृतैः सप्रतिपक्षाः, प्रतिक्रष्टः प्रत्यनीको वा पक्ष: प्रतिपक्षः, मिश्राश्च तद्वयमेकीभूतं मिश्रमुच्यते तच्चोक्तमेव द्वयं गृह्यते प्रस्तावान्न तु तद्वयति - रिक्तं सचित्तादित्रयमचित्तादित्रयं च एतदेवोभयं मिश्रीक्रियते, यस्य च मूलभेदस्य यत् प्रतिपक्षत्वेन निर्दिष्टं तयोर्द्वयोर्मिश्रणम्, तद्यथा - सचित्ताचित्ता, शीतोष्णा, संवृतविवृता, चशब्दः समुच्चये, एकैका एकशः, एकैका सेतरा सचित्तादीनाम्, एकैका च मिश्रा स्वप्रतिपक्षेणैव, एवमेता नव योनयो भवन्ति । योनिशब्दस्यार्थः युवन्ति - मिश्रीभवन्ति यत्र स्थाने जन्महेतुद्रव्याणि कार्मणेन सह तद्योनिः, तच्च स्थानमाश्रयभावेन यूयत इति योनिः । अमुमेवातिक्रान्तमर्थं स्पष्टयन्नाह - तद्यथा - सचितेत्यादि । विशिष्टप्रतिपक्षदर्शनार्थं मिश्रार्थप्रतिपादनार्थं चेदं भाष्यम् । सचित्ता जीवप्रदेशाधिष्ठिता १ अचित्ता तद्विपरीता २ सचित्ताचित्ता प्रस्तुतद्वयस्वभावमिश्रा ३ शीता शिशिरा १ तद्विपरीतोष्णा २ उभयस्वभावा मिश्रा ३ संवृता प्रच्छन्ना सङ्कटा वा १ तद्विपरीता विवृता २ मिश्रोभयस्वभावा ३ एतावत्यो योनयः ।
सम्प्रति जन्मभाजां विभज्यन्ते कस्य का योनिर्भवतीत्याह- - तत्र आसां मध्ये योनीनां देवनारकाणामचित्ता योनिर्भवति, शेषा व्युदस्यन्ते कस्य का योनिः देवानां प्रच्छदपटदेवदूष्यान्तरालं योनिस्तच्चाचेतनं, न जीवप्रदेशाधिष्ठितम्, नारकाणां तु वज्रमयनरककुडयेषु वातायनकल्पा योनयो भवन्त्यचेतनाः, गर्भजानां मिश्राः तिर्यश्चो मनुष्याश्च गर्भजन्मभाजस्तेषां मिश्राः, प्रागचित्तायाः प्रस्तुतत्वात् सचित्ताचित्तेत्यर्थः । योषितां किल नाभेरधस्तात् सिराद्वयं पुष्पमालावैकक्ष्यकाकारमस्ति, तस्याधस्तादधोमुखसंस्थितकोशाकारा योनिस्तस्याश्च बहिभूतकलिकाकृतयो मांसमञ्जर्यो जायन्ते, ताः किलास्टक स्फुटित्वा ऋतौ सवन्ति, तत्र केचिदसृजो लवाः कोशamari योनिमनुप्रविश्य सन्तिष्ठन्ते, पश्चाच्छुक्रसम्मिश्राँस्तानाहारयन् जीवस्तत्रोत्पद्यते, तत्र ये योन्याऽऽत्मसात्कृतास्ते सचित्ताः कदाचिन्मिश्रा इति, ये तु न स्वरूपतामापादितास्तेऽचित्ताः,
'योषिद्योनिविचारः
१ ' तद्वा' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org