________________
उपपातजन्मनः
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ मापादयन्तीत्याध्यात्मिकपुद्गलोपमर्दनलक्षणमेतजन्म, प्रत्यक्षं चैतत्, प्रायस्तत्र गर्ता
र ग्रुपलब्धेः । तथा योषिद्यानावैकध्यमागत्य ग्रहणं शुक्ररक्तयोर्यत् क्रियते "विचारः" जीवेन जनन्यभ्यवहृताहाररसपरिपोषापेक्षं तद् गर्भजन्मोच्यते, अत्रापि गर्भ एव जन्म प्रतिपत्तव्यम् । इदं पूर्वजन्मनो भिन्नलक्षणम्, आगन्तुकशुक्रशोणितग्रहणात्, न खलु योषिद्योनेस्तदेव शुक्रशोणितं स्वरूपमतोऽस्ति भेदः । तथा उपपातक्षेत्रप्राप्तिमात्रनिमित्तं
यजन्म तदुपपातशब्देनोच्यते, यथा प्रच्छदपटस्योपरिष्टाद् देवदृष्यस्यास्वरूपम्
" धस्तादत्रान्तरालवर्तमानान् पुद्गलान् वैक्रियशरीरतयाऽऽददानो देवः समुद्भ
वस्ताद
वति, इदं च पूर्वाभ्यां भिन्नलक्षणम् , नहि प्रच्छदपटदेवदूष्यपुद्गलानेवासौ शरीरीकरोति, नापि शुक्रादिपुद्गलानाददान उत्पद्यते, तस्मात् प्रतिविशिष्टक्षेत्रप्राप्तिरेवास्य जन्मनो निमित्तं भवति, तथा नारकाणां नरककुड्यव्यवस्थितातिसकुटमुखनिष्कुटा वातायनकल्पा योनिस्तत्र वैक्रियशरीरपुद्गलानादाय निष्पीडयमाना वज्रमयनरकतले जलमध्यक्षिप्तपाषाणवन्महता वेगेन प्रतिपतन्ति । एवमेतत् त्रिविधं जन्म वेदितव्यमात्मनः शरीरतयात्मलाभ इति । अपरे वर्णयन्ति-सम्मूच्छेनमेवैकं सामान्यतो जन्म, तद्धि गर्भोपपाताभ्यां विशेष्यत इति ॥ ३२॥ अत्र च सम्मूछेनमादौ, प्रत्यक्षबहुस्वामित्वात् । तदनु गर्भः, प्रत्यक्षौदारिकशरीर
साधर्म्यात् । तत उपपातः, स्वामिवैधात् , इति । उक्तं जन्म प्रादुर्भाअनन्तरसूत्रसम्बन्धः वमानं शरीरिणाम , न तु प्रतिविशिष्टस्थाननिर्देशः कृतः, कीशि पुनः स्थाने प्रथमत उत्पद्यमानाः:सम्मूर्च्छन्ति, शुक्रासृग्ग्रहणं वा कुर्वन्ति, वैक्रियशरीरं वा समाददते, किंगुणे धामनि नारकदेवा इति ? अतस्तेषां जन्मनां विशिष्ट स्थाननिरूपणाय योनयोऽभिधीयन्तेसूत्रम्-सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः॥२-३३॥
भा०-संसारे जीवानामस्य त्रिविधस्य जन्मन एताः सचित्तादयः सप्र
. तिपक्षा मिश्राश्चैकशो योनयो भवन्ति । तद्यथा-सचित्ता, गोजानमन अचित्ता, सचित्ताचित्ता, शीता, उष्णा, शीतोष्णा, संवृता,
विवृता, संवृतविवृता, इति । तत्र नारकदेवानामचित्ता योनिः। गर्भजन्मनां मिश्रा । त्रिविधाऽन्येषाम्। गर्भजन्मनां देवानां च शीतोष्णा । तेजःकायस्योष्णा । त्रिविधाऽन्येषाम् । नारकैकेन्द्रियदेवानां संवृता। गर्भजन्मनां मिश्रा । विवृताऽन्येषामिति ॥
१ 'देवनारकानां ' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org