________________
तस्वार्थाधिगमसूत्रम्
[ अध्यायः
शीतरश्मिनिसर्गकरं तैजसम् । तथा भ्राजिष्णुप्रभेत्यादि । भ्राजनशीलो - भ्राजि - ष्णुः प्रभाणां समुदयस्तस्य छाया - आभा भ्राजिष्णुप्रभासमुदयच्छाया ॥ ननु च भ्राजिष्णुरेव भवति, किं हि तस्य विशेष्यते ? मलीमसत्वेनापि दर्शनात्, मलीमसप्रभो मणिरिति संव्यवहरन्ति लौकिकाः, तस्याः छाया (या) निर्वर्तकं उत्पादकं तैजसं, शरीरेष्वौदारिका - दिकेषु केषुचित् मणिज्वलनज्योतिष्कविमानवदिति । यथा हि मणयः स्फटिकाङ्कवैडूर्यादयो भ्राजिष्णुच्छाया विमलपुद्गलारब्धत्वात् ज्वलनो वा निरस्तप्रत्यासन्नतिमिरत्रातः प्रद्योतते स्वतेजसा, ज्योतिष्कदेवानां वा चन्द्रादित्यादीनां विमानान्यतिभास्वराणि निर्मलद्रव्यारब्धत्वात्, तथा तैजसशरीरापेक्षमौदारिकादिषु शरीरेषु केषुचिदेव स्फुरन्मृजाजालमुपलभ्यते, न सर्वेषु, अन्यथा तद्भावात् । कया युक्त्या तत् तथा भवेत् ? एतच्च तेष्वेव शरीरेषु द्रष्टव्यं यानि लब्धेराधारतां प्रतिपद्यन्ते, अन्यथा ग्रन्थो न सङ्गच्छेत, तथा भ्राजिष्णुप्रभेत्यादि च किं कारणं ? ये हि लब्धिप्रत्ययमेवेच्छन्ति तैजसं तेषां तावदन्यत्र लब्धेरभावान्न घटते, आचार्याभिप्रायो ऽपि नायं पराभिप्रायप्रस्तावात् । अपरे वर्णयन्ति - आचार्य मतमेवेदम्, अन्ये तु नित्यसम्बन्धमेव तत्कार्यमपि च भ्राजिष्णुप्रभेत्यादि, तदेतदयुक्तमव्याप्तेरिति ॥ अथ यानि शरीराणि लब्धिरहितानामपि मयूखजालमुद्वमन्ति दृश्यन्ते तेषु कथम् । तत्र हि कर्मणौदा रिकशक्तिरेव सा तादृगिति न तैजसस्य, यथा वैकियेष्वितिप्रत्याख्यानवादिन एवं वर्णयन्ति, तस्माद् यदधुनैव लब्ध्या समुद्भाव्यते तत् कथमनादिसम्बन्धं सर्वस्य वा जन्तोः स्यादाहारकवदप्राप्तलब्धेर्न तेन दाहादि किंचित् कार्यमनुष्ठातुं शक्यमनुपजातकुम्भेनेव जलाद्याहरणादि, प्रतिनिवृत्ततथाविधलब्धिरपि पुमान् तथा किंचित् कर्तुं समर्थो न भवति ध्वस्तघट इव तैलधारणादि, तस्मान्नास्ति तैजसं सर्वस्य जन्तोः, न चानादिसम्बन्धम्, इह च सूत्रे प्रेक्षापूर्व कारितयाऽऽचार्येणाक्षेपोऽकारि सूत्रद्वयमप्याक्षेप्स्यामीति, अन्यथा पूर्वसूत्र एवाक्षेपो युज्यते, एवमेकीयमतेन प्रत्याख्यातमेव तैजसमनादिसम्बन्धतया सर्वस्येति । या पुनरभ्यवहृताहारं प्रति पाचकशक्तिर्विनाऽपि लब्ध्या सा तु कार्मणस्यैव भविष्यति, कर्मोष्णत्वात्, कार्मणं हीदं शरीरमनेकशक्तिगर्भत्वादनुकरोति विश्वकर्मणः, तदेव हि तथा समासादितपरिणति व्यपदिश्यते यदि तैजसशरीरतया ततो न कश्चिद् दोष इति ॥ ४३ ॥
अथ किं यथैते सर्वस्यानादिसम्बन्धे युगपच्च किमेवमन्यान्यपि युगपदेकस्य भवन्त्युताहो न १ । अत्रोच्यते - सन्ति, न तु सर्वाणि । कियन्ति तहीति ? । अत आह— सूत्रम् - - तदादीनि भाज्यानि युगपदेकस्या चतुर्भ्यः ॥ २४४ ॥
1
२०२
भा०-ते आदिनी एषामिति तदादीनि । तैजसकार्मणे यावत् संसारभाविनी आदिनी कृत्वा शेषाणि युगपदेकस्य जीवस्य भाज्यान्या चतुर्भ्यः ॥
१' आदिनौ ' इति घ-पाठः ।
4
Jain Education International
२ ० विनौ आदिम् ' इति घ-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org