________________
१८६
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ सूत्रम्-एकसमयोऽविग्रहः ॥२-३०॥ टी०-क्षेत्रतो भाज्यमेकादिप्रदेशभावित्वात् क्षेत्रतो विग्रहपरिमाणं भाज्यम् , कुतः? संहारविसर्गधर्मात्मकत्वाज्जीवप्रदेशानाम् , पूर्वशरीरावगाहनक्षेत्रादुपपातव्यपेताद्, एकादिप्रदेशादिकं चोपपातक्षेत्रमध्यवसातव्यम् , एकादिप्रदेशान्तरितं वा, लोकान्ताल्लोकान्तमिति वा, कालतः पुनर्नियतपरिमाण एव विग्रहो भवति ॥ भा०-एकसमयोऽविग्रहो भवति । अविग्रहा गतिरालोकान्तादपि एकेन
_ समयेन भवति, एकविग्रहा द्वाभ्याम् , दिविग्रहा त्रिभिः, त्रिविविग्रहे समयमानम् ।
- ग्रहा चतुभिरिति । अत्र भङ्गप्ररूपणा कार्येति ॥ ३० ॥ टी--एकसमयोविग्रहो भवतीत्यादि भाष्यम् । एकोऽन्यनिरपेक्षः अविभागी यः कालः परमनिरुद्धश्च समयः स एकः समयो यस्य व्यवधायकः स एकसमयो भवतीह विग्रहः । एतदुक्तं भवति-भवान्तरालवर्तितायां जन्तोर्गतिपरिणतस्यैकेन समयेनातिक्रान्तेन वक्रा गतिजोयत इति, न चायं नियमः, सर्वस्यावश्यं समयातिकमे वक्रेण भवितव्यम् , किन्तु पूर्वापरसंमयावधिक एष विग्रहः, तेन द्वित्रिचतुःसमयासु गतिषु भवति, नैकसमयायाम् , अपिच यत्र विग्रहस्तत्रैकसमयत्वमुपलक्षणम् , न पुनः एकसमयपरिमाणे काले व्यवच्छिन्ने सर्वत्र विग्रहेण भवितव्यम् , या हि ऋज्वी गतिर्न तस्यां विग्रहोऽस्ति, अथ चैकसमयेति । सम्प्रति नियतकालपरिमाणामेकसमयां गतिं क्षेत्रतो भाज्यतया दर्शयति-अविग्रहा गतिरालोकान्तादपि एकेन समयेन भवति, ऋज्वी गतिः क्षेत्रमङ्गीकृत्य कदाचिदव्यवहितश्रेण्यन्तरमात्र एव विरमति जन्तोरुत्पादवशात् , कदाचिच्छ्रेणिद्वयमतिक्रम्योपरमति आलोकान्ताद् वा सिद्धयमानस्य भवतीत्येकसमयपरिमाणभेदवर्ति, सर्वत्र गतिविशेषात् , यथा देवदत्तयज्ञदत्तयोरेकः प्रहरेण त्रीणि योजनानि छिनत्ति, अपरो योजनमध्यर्थं यातीति, एवं तावदवक्रा गतिरेकेन समयेन भवतीति निरूप्य अविग्रहपरिमाणं चाख्याय विग्रहप्रमाणत एव सुज्ञानसमयसङ्ख्या एकद्वित्रिवका गतीराख्याति, एकविग्रहा द्वाभ्याम्, एको विग्रहो यस्यां सैकविग्रहा पूर्वापरसमयावधिकत्वात् विग्रहस्य सामर्थ्यान्निश्चीयते द्वाभ्यां समयाभ्यां निप्पाद्यत एकविग्रह इति। एवं द्वित्रिविग्रहयोरपि वाच्यम्।। अथैकस्यां नरकादिगतौ विवक्षितायां ये प्राणिनस्तत्र नरक उत्पत्स्यन्तेऽन्तर्गतिवर्तिनस्ते किं सर्वेऽपि विग्रहगत्या एकस्मिन् काले उत्पद्यन्ते, अथ अविग्रहया, उत द्वाभ्यामिति ? अत आह-अत्र भङ्गप्ररूपणा कार्या, अत्रैवंविधविचारप्रस्तावे भङ्गाः-विकल्पाः तेषां प्ररूपणा-विभावना कार्या । सा चैवं कार्या-नारकाः कदाचित् सर्व एव विग्रहगतयो भवन्ति, अथवा अविग्रहगतयश्च, विग्रहगतिश्चैकः स्यात् , अथवा अविग्रहगतयो विग्रहगतयश्चेति, एतेन विकल्पत्रयेणैकेन्द्रियान् विहाय शेषा
१' समयोपाधिक ' इति ग-पाठः । २ 'गतिराख्याति' इति क-ख-पाठः । ३ 'कर्तव्या' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org