________________
सूत्रं ३१] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१८७ व्याख्याताः, एकाद्युपपादोपपत्तेर्यावत् स्वसङ्ख्यानियम इति, एकेन्द्रियास्तु नित्यमविग्रहगतयो विग्रहगतयश्चापदिश्यन्त इति ॥ ३०॥
उक्तो विग्रहः। अथ विग्रहगतिसमापन्ना जीवाः किमाहारकाः अनाहारका इति ? अनाहारका इत्याह, यद्यनाहारकाः एवं तर्हि कियन्तं कालमिति वक्तव्यमिति, उच्यते
सूत्रम्-एकं द्वौ वाऽनाहारकः॥२-३१ ॥ भा०-विग्रहगतिसमापन्नो जीवः एकं वा समयं द्वौ वा समयावनाहारको
____ भवति, शेषं कालमनुसमयमाहारयति । कथमेकं द्वौ वाऽना
का हारको न बहूनीति, अत्र भङ्गप्ररूपणा कार्या ॥ ३१ ॥ टी०-विग्रहगतीत्यादि भाष्यम् । उक्ता विग्रहगतिस्तां समापन्नः-अनुप्राप्तो जीवः सामर्थ्याद्-विग्रहापेक्षत्वाद् द्विविग्रहां त्रिविग्रहां वाऽनुप्राप्तो गृह्यते, तत्र द्विविग्रहायामेकं समयं मध्यमं त्रिविग्रहायां द्वौ समयावनाहारको मध्यमौ भवति । अनन्तरसूत्रात् समयग्रहणम
नुवर्तते, वाशब्दो विकल्पार्थः कदाचिदेकं कदाचिद् द्वाविति । अपरे वाशब्दस्य विचारः
चार वाशब्दात् त्रीन् वा समयाननाहारको भवतीति व्याचक्षते, तं च केवलिनमादर्शयति समुद्घातकाले त्रिचतुर्थपञ्चमसमयेषु, तदत्यन्तासम्बद्धम् , विग्रहगतिसमापन्नो जीव इत्येवंविधे भाष्यप्रक्रमे का प्रस्तावः केवलिसमुद्घातानाहारककालस्य? अथाप्रस्तुतमप्यत्रावश्यं वक्तव्यं भाष्यादुत्तीर्य, ततोऽन्तर्मुहूर्ताध शैलेश्यवस्थायामनाहारक इति किं नोक्तम् ? सादिकमनिधनं कालं सिद्धोऽनाहारक इति वा, अतः प्रस्तावापास्तत्वान्न विद्वन्मनांस्याराधयत्येतद् व्याख्यानम् । यदि पुनः पञ्चसमयायां गतौ वाशब्देन समयत्रयं समुच्चीयते ? उच्यते-अभिहितं पाक न तादृश्यां गत्यां कश्चिदुपपद्यते, अथास्ति सम्भवः, न कश्चिद् दोषः ॥ अथ किमाहारकविशेषमङ्गीकृत्य अनाहारकत्वमाख्यायते मूरिणा उत सर्वाहारनि
षेध इति ? सर्वाहारनिषेध इत्याह, कति वाऽऽहाराः ? ननु त्रयः, वि ओजआहारो लोमाहारः प्रक्षेपाहार इति, तत्रौजआहारोऽपर्याप्तकाव
स्थायां कार्मणशरीरेणाम्बुनिक्षिप्ततप्तभाजनवत् पुद्गलादानं सर्वप्रदेशैर्यत क्रियते जन्तुना प्रथमोत्पादकाले योनौ अपूपेनेव प्रथमकालप्रक्षिप्तेन धृतादेरिति, एष च आन्तर्मुहूर्तिकः । लोमाहारस्तु पर्याप्तकावस्थाप्रभृति यत् त्वचा पुद्गलोपादानमाभवक्षयाच सः । प्रक्षेपाहारः ओदनादिकवलपानाभ्यवहारलक्षणः । अतोनाहारत्रयमपि प्रतिषिध्यते, भवस्थतायामेव त्रितयाभ्यनुज्ञानात् । प्रथमान्त्यसमययोरन्तर्गतौ च्युतजन्मदेशस्थत्वादाहारक एव, पूर्वोत्तरशरीरपरित्यागादानकालाभेदवर्तित्वात् , कर्मपुद्गलादानं पुनर्योगकषायहेतुकमन्तर्गतावपि सर्वत्र सर्वकालमस्ति, वर्षणसमये समादीप्तनाराचप्रक्षेपवत् , तद् यथा जलधारा
१' स च ' इति क-ख-पाठः। २ 'अपूपेनैव ' इति क-व-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org