________________
पोया
सूत्र २९ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१८५ यत् स्थानमाप्तव्यमृज्वा गत्या स तदविश्राम्यनन्तराले स्वभावादेव केनचिदप्रतिहतः प्रतिघातहेतुना तदवश्यं प्राप्नोति, किं तत्र द्वितीयादिसमयकल्पनया ? अतः प्रतिघाताभावात् अन्तराले तस्यैकसमयैव भवति । अपरे वर्णयन्ति-सिद्धयमानगतेरेव प्रतिघाताभावः, प्रतिघातकं हि कर्म, तदभावादित्यर्थः, तथा जन्तुनकविग्रहया गत्या यत् स्थानं यातव्यं तदसौ समयद्वयेनैव प्राप्नोति, उपपातक्षेत्रवशात् , न ततोऽपि श्रेण्यन्तरमाकामयतीति, अतो विग्रहनिमित्ताभावादुच्यते विग्रहनिमित्त उपपातक्षेत्रवश इति, एवं द्वित्रिविग्रहयोर्योजनीयम् । अन्ये प्ररूपयन्तिगतेनिमित्तं कार्मणशरीरं, तत्सन्तानव्युच्छेदश्च विग्रहनिमित्ताभाव इति ॥ एवं गतिनियममावेद्य अधुना विग्रहशब्दार्थ पर्यायान्तरैरादर्शयति-विग्रहणं-विग्रहः-वक्रितं-कुटिलमित्यर्थः।
____ पुनरप्यपरितुष्यन् विशेषप्रतिपिपादयिषया आह-विग्रहोऽवग्रहः श्रेण्यविग्रहशब्दस्य एस न्तरसङ्क्रान्तिरित्यनान्तरम् । विग्रहः कः ? अवग्रहः, ऋजुताया
अवच्छेद इत्यर्थः, तथा श्रेणेरन्या श्रेणिः श्रेण्यन्तरं, तत्र सङ्क्रान्तिस्तदवाप्तिरिति, आलेखिते चतुरस्राकाशप्रतरे बिन्दुकश्रेणिभिः समस्तमिदमनुभवमारोहति । एवमेपामर्थो विग्रहशब्दार्थादनान्तरमर्थराशिरित्युपसंहृतः। अथेदानीं पुद्गलानामप्यतिदेशं कुर्वल्लाँघवार्थमाह-पुद्गलानामप्येवमेव । यथा संसारिणां चतस्त्रो गतयः सम्भावितास्तथा पुद्गलानामपि परमाण्वादीनां विस्रसाप्रयोगाभ्यामाभावनीयाः। अन्तर्गतावयं कालनियमो विग्रह नियमश्च प्रतिपादितः। अधुना भवस्थानामेव शरीरिणां या गतिः सा कथमिति ? उच्यते-शारणामित्यौदारिकाद्यपेक्ष्योक्तम् , अन्यथाऽन्तरगतावपि कार्मणशरीरयोगाद् वपुष्मानेवेति न साधुः स्यात् । चशब्देनान्तर्गतिवर्तिनो जीवाः समुच्चीयन्ते पुद्गला वा, शरीरिणां च जीवानामेव गतिर्मवति विग्रहवती चाविग्रहा च, न कश्चिद् भेदः। सविग्रहाविग्रहसम्भावनायां
. वक्रगतौ हेतुः
प्रयोगपरिणामवशादिति गतेः कारणमाह । स्वप्रयत्नापेक्षो वाऽसौ प्रयोग
तथा गच्छति परप्रयत्नापेक्षो वा कृष्यमाण इति प्रयोगपरिणामवशात उच्यते । परिणामो विस्रसास्वभावः प्रयत्ननिरपेक्षस्तद्वशाद् वा तथा गच्छति । अथवा प्रयोग एव परिणामस्तद्वशादिति शरीरिणामप्येवमेवेत्यतिदिष्टम् , अतस्तस्य देशापवादः प्रदर्श्यतेन तु तत्र विग्रहनियम इति । नैव तत्र-शरीरिषु विग्रहा नियम्यन्ते अल्पे वा बहवो वा यथोक्तविग्रहेभ्य इति ॥ २९ ॥
भा०-अत्राह-अथ विग्रहस्य किं परिमाणमिति । अत्रोच्यते-क्षेत्रतो भाज्यम् , कालतस्तु ॥
टी-अत्राहेत्यादिः सम्बन्धग्रन्थः । अविग्रहवद्गतिविचारप्रस्तावे पर आहअथ विग्रहस्य किं परिमाणमिति ? । अथेत्यनेन पूर्व क्रियानन्तर्यमावेदयति, विग्रहोवक्रं तस्य किं परिमाणं, प्रमाणमित्यर्थः, कियता कालेन विग्रहो जायत इति प्रश्नार्थः, अत्र प्रश्नेऽभिधीयते निर्णय इत्यत आह--क्षेत्रतो भाज्यम् , कालतस्तु ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org