________________
१८४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ सामर्थ्याद् गतेरेव, एकसमयपरिमाणगतिकालोत्तरभाविनाऽवच्छेदेनोत्पद्येत, तत्रापि वक्रया श्रेण्योत्पद्यमानः समयद्वयपरिमाणगतिकालोत्तरभाविनावच्छेदेनोत्पद्येत, अत्र च वक्रशब्दोऽप्युच्चरितो विग्रहशब्दस्य, यदि च विग्रहोऽपि वक्रमेव वक्ष्यते पुनरुक्तता स्यात्, सामानाधिकरण्यं च द्विसामायिकशब्देनानुपपन्नमेव स्याद् विग्रहशब्दस्य, तस्माद् वक्रमत्र साक्षादुपात्तमेकतो वक्रा उभयतो वक्रेति, विग्रहशब्दश्चावच्छेदवचन इति न किञ्चिद् विरुध्यते ॥ ननु चात्र
____ सूत्रे त्रिवक्रा गतिनोंपात्तैव, तद् कथं सूत्रकारेणोपन्यस्ता प्रवचनाद बहिर्वर्तत्रिवक्रानुपादान
न मानेति ?। उच्यते यद्यपि गतिपरिमाणसूत्रे नोपात्ता तथाऽप्यर्थतस्तत्प्र
स्ताव एवोपरिष्टादभिहिता, यथा “अपज्जत्तसुहुमपुढविक्काइए णं भंते ! अधोलोगखेत्तणालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उड़लोगखेतणालीए बाहिरिल्ले खेत्ते अपज्जत्तसुहुमपुढवीकाइयत्ताए उववज्जेज्जा, सेणं भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा ? गोयमा ! तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जेज्जा"। चत्वारश्च समयास्त्रिवक्रायामेवेति अतो न दोषः, तथा पञ्चसमयाऽपि गतिः सम्भवति, न चोपात्ता सूत्रे, यः प्राणी महातमःप्रभाथिवीविदिग्व्यवस्थितः कालं करोति ब्रह्मलोकविदिशि चोत्पद्यते तस्य पञ्चसमया गतिरवश्यं भवति, न च कचित् प्रतिबद्धा, अत्र केचिद वर्णयन्ति-अस्ति सत्यं सम्भवः पञ्चसमयाया गतेने पुनस्तया कश्चिदुत्पद्यते जन्तुरित्यतो न प्रतिबद्धेति । अथवा विद्यमानापि नोक्तेयं यथा चतुःसमयेति । इयांस्तु विशेषः-चतुःसमयाऽर्थतोऽभिहिता सूत्रान्तरे, पञ्चसमया तु नार्थतो न सूत्रत इति, किं पुनः कारणं सङ्ग्रह
कारेण चतस्र एव गतय उपात्ताः, न पुनश्चक्रवालादयोऽपीति ?। उच्यतेपञ्चसमयानुपादाने हेतुः
- एताः प्रायः कालपरिमाणमङ्गीकृत्य एतास्वेव चतसृषु पतन्त्यतो नोपात्ताः
पार्थक्येन, तथा भूयसा भवन्ति जीवानामेताः पुद्गलानां तु प्राय इत्यतोऽपि नादृताः, पारमर्षप्रवचनवेदिनस्तु सूत्रं परिज्ञास्यन्ति सर्वथा, वयं प्रकृतमेव प्रस्तुमः । सम्प्रति गतीनामियत्तामावेदयन्नाह-एवमेता ऋज्वादयश्चतुःसमयाः परा यासां ताश्चतु:समयपराश्चतुर्विधा एव गतयो भवन्ति, परतः पञ्चसमयादिका न सम्भवतीत्यर्थः । सर्वत्र च पूर्वशरीरविच्छेदाविच्छेदौ मण्डूकजलूकागतिभ्यां भावनीयाविति, आसां च मध्ये नारकादीनामविग्रहैकद्विविग्रहा एव भवन्ति न तु त्रिविग्रहाः । एकेन्द्रियाणां त्रिविग्रहाश्वेतराश्च, किं पुनः कारणमेकसमयैवाविग्रहा भवति न द्विसमया त्रिसमया वा तावदसौ मृतो जात्ववकं यावत् समयद्वयं कालतः पूर्णमेव समयत्रयमपीत्यत आह-प्रतिघाताभावात्। को वा नियमोऽवग्रहत्र
र यात् परतोऽन्यो विग्रहो नास्तीति चत्वारि पञ्च वा वक्राणि विधाय किमिति
3. नोत्पत्तिस्थानमाप्नोतीति ? । उच्यते-विग्रहनिमित्ताभावाच्च, येन हि १ अपर्याप्तसूक्ष्मपृथ्वीकायिको भदन्त ! अधोलोकक्षेत्रनाडया बहिःक्षेत्रे समवहतः समवहत्य यो भव्य ऊर्ध्वलोकक्षेत्रनाडया बहिःक्षेत्रे अपर्याप्तसूक्ष्मपृथ्वोकायिकतयोत्पद्येत स भदन्त ! कतिसामयिकेन विग्रहेणोत्पद्येत ? गौतम ! त्रिसामयिकेन वा चतुःसामयिकेन वा विग्रहेणोत्पयेत ।
A
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org