SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १८१ निश्रेण दूलप्रहणे हेतुः सूत्र.२८] स्वोपज्ञभाष्य टीकालङ्कृतम् अधुना भाष्यमनुगम्यते-- भा०-सर्वा गतिर्जीवानां पुद्गलानां चाकाशप्रदेशानुश्रेणिर्भवति, विश्रे णिर्न भवतीति गतिनियम इति ॥ २७ ॥ टी-सर्वा गतिरित्यादि । सर्वेति ऊर्ध्वमधस्तिर्यग् वा देशान्तरप्राप्तिः, जीवानांजीवनयुजां संसरणधर्माणामित्यर्थः, पुद्गलानामिति, पूरणाद् गलनाच्च पुद्गलाः-निरुक्तप्राभृतानुसारेण उपचयापचयभाजः, तेषां च, समुचितौ चशब्दः । कथं पुनरत्र पुद्गलग्रहण ___ मतर्कितमेव सहसा विहायसोऽपतदिति ? । उच्यते-जीवाधिकारानुवृत्ती ल गतिनियमविवक्षायामनुपात्तमपि सूत्रे लाघवैषिणा भाष्यकारेणोपात्त मेकप्रयत्नसाध्यत्वात् , अन्यथा तु गौरवं जायते, अतश्चेदमवश्यमर्थतो वक्तव्यम्-पुद्गलानां चेति, उत्तरत्र सूत्रे जीवग्रहणाद् , अन्यथा जीवाधिकारानुवृत्तौ जीवग्रहणस्य न किंचित् प्रयोजनमुपलभ्यते, तस्मात् पश्यत्ययमाचार्यो जीवानां पुद्गलानां च गतिनियम अनन्तरसूत्रेऽतः पुद्गलव्यवच्छित्तये जीवग्रहणमिति । आकाशप्रदेशानुश्रेणिभवति । जीवपुद्गलावगाहलक्षणमाकाशं तस्य प्रदेशाः-परमाणवोऽमृतास्तेषां पतिप्रदीर्घा श्रेणिरसंख्यातप्रदेशा, पुद्गलगमने तु सङ्ख्यातप्रदेशापि, तामेवंविधां श्रेणिमनुपत्य गमनमुपजायते, आकाशप्रदेशानां या श्रेणिस्तामनु जायते गतिर्भवत्ययमर्थः समासस्तु, कथमेतचिन्त्यम् आकाशग्रहणं, धर्मादिद्रव्यनिवृत्त्यर्थम्, तदेव ह्यवगाहदानेन व्याप्रियते, न शेषमिति । उक्तलक्षणायाः श्रेणेविंगता या गतिः सा विश्रेणिर्जीवानाम् , पुद्गलानां तु स्वभावाद , विश्रेणिर्न भवतीति गतिर्नियम्यते । पूर्वापरायता वियत्प्रदेशश्रेणयो दक्षिणोत्तरायताश्चापराः तथा चोर्ध्वमधश्च धर्माधर्मद्रव्यद्वयावधिका यास्तास्वेव गतिसद्भावात् ता एव विभिद्य न कदाचिदपि प्रयान्तीति ॥ २७ ॥ अत्राह-सैवंस्वभावा गतिः किमृज्वेव गत्वोपरमति, अथ कृत्वापि वक्रं पुनरुपजायते ? । उच्यते-पुद्गलानामनियमः, सिद्धयतस्त्वेकान्तेनैवाविग्रहेत्यत आह सूत्रम्-अविग्रहा जीवस्य ॥ २-२८ ॥ सिध्यमानस्य भा०-सिद्धयमानगतिर्जीवस्य नियतमविग्रहा भवति ॥२८॥ टी-एतावद् भाष्यमस्य सूत्रस्य । सेधनशक्तियुक्तः सिद्धयमानः सेधनशीलो वा तस्य • गतिर्गमनं पूर्वप्रयोगादिहेतुचतुष्टयजनितम् । जीवस्येति ग्रहणात् पूर्वयोगैर्जीवाः पुद्गलाश्चेति ज्ञापितं भवति, सिद्धयमानस्येति सामर्थ्यलब्धमुदचीचरत् मूरिरुत्तरयोगे संसारिग्रहणात् , नियतं सर्वकालमेव सिद्धयताम् , अविग्रहा-ऋज्वी गतिर्भवतीति वेदितव्यमिति ॥२८॥ ___ आह-अन्यस्य सिद्धयमानजीवव्यतिरिक्तस्य कथमिति ? । उच्यते १ 'सूत्रोक्तः' इति क-ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy