________________
१८२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ सूत्रम्-विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥ २-२९ ॥
टी०-विग्रहवती-वक्रा चशब्दादविग्रहा वाऽनन्तरसूत्रनिर्दिष्टा गतिर्भवति,संसारिग्रहणानुवृत्तौ पुन: संसारिग्रहणं सिद्धग्रहणादपास्तस्य प्राक्तनसंसारिग्रहणस्य पुनः प्रत्युज्जीवनाय अर्थवशाच विभक्तिविपरिणामः प्राक चतुर्थ्य इत्यन्तर्गतिकालप्रकर्षावधारणार्थः, 'एकसमयोऽविग्रहः' (अ० २, सू० ३० ) इति वक्ष्यमाणत्वात् । चतुभ्यो विग्रहेभ्य आरात् सविग्रहा भवति, त्रिविग्रहा प्रकर्षत इति, प्राकशब्दस्य मयोंदाभिधायित्वात् ॥
अधुना भाष्यानुसरणं क्रियते
भा०--जात्यन्तरसङ्कान्तौ संसारिणो जीवस्य विग्रहवती चाविग्रहा च गतिर्भवतीति, उपपातक्षेत्रवशात् तियेगूमधश्च, प्राक चतुर्थ्य इति येषां
विग्रहवती तेषां विग्रहाः प्राक् चतुर्यो भवन्ति, अविग्रहा विग्रहगतिसङ्ख्याः - एकविग्रहा द्विविग्रहा त्रिविग्रहा इत्येताश्चतुस्समयपराश्चतु
विधा गतयो भवन्ति, परतो न सम्भवन्ति, प्रतिघाताभावाद् विग्रहनिमित्ताभावाच । विग्रहो वक्रितम्, विग्रहोऽवग्रहः श्रेण्यन्तरसान्तिरित्यनान्तरम् । पुद्गलानामप्येवमेव । शरीरिणां च जीवानां विग्रहवती चाविग्रहवती च प्रयोगपरिणामवशात् । न तु तत्र विग्रहनियम इति ।। २९॥
टी०--जात्यन्तरसङ्क्रान्तावित्यादि । जातिरेकेन्द्रियादिभेदात पञ्चधा, जातेरन्या जातिर्जात्यन्तरं तस्मिन् सङ्क्रान्तिः-गमनं जात्यन्तरसङ्क्रान्तिस्तस्यां जात्यन्तरसङ्क्रान्तौ सत्यामिति । अथ यदा स्वजातादेवोत्पद्यते तदा कथम् ? तदाऽपि ह्येवमेव गतिर्वक्तव्या, जात्यन्तरग्रहणं तु तदा प्रदर्शनमात्रकारि व्याख्येयम् । अथवा जननं-जन्म जातिशब्देनोच्यते, जन्मनो जन्मान्तरावाप्तिर्जात्यन्तरसङ्क्रान्तिरिति न कश्चित्र दोपः । संसारः-कर्म तदभिसम्बन्धात संसारिणो जीवस्येति जीवनधर्मभाजः, मजुगतौ पूर्वकमेवाऽऽयुर्भवति यावदुपपातदेशं प्राप्नोति, कुटिलगतौ यावद् वक्रं तावत् पूर्वकम्, तत्परतो भविष्यजन्मविषयमायुरुदेतीत्येवंविधार्थज्ञापनाय जीवस्येत्यवोचत् । समुच्चयार्थ दर्शयति-वक्रा चावका च उभयी
- गतिः । किं पुनः कारणमत्र येन कदाचिद् वक्रा कदाचिदवक्रेति ।
. अत आह-उपपातक्षेत्रवशात् उपपातक्षेत्रं यत्र जन्म प्रतिपत्स्यते तस्य वशः-आनुलोम्यमनुकूलता उपपातक्षेत्रवशस्तस्मादुपपातक्षेत्रवशात् कारणात् । तियेगूध्वमधश्च प्राक चतुभ्य इति, दिक्षु विदिक्षु च व्यावहारिकीषु स म्रियमाणो यावत्यामाकाशश्रेणाववगाढस्तावत्प्रमाणां श्रेणिममुञ्चदूर्ध्वमधश्च प्राक् चतुर्यो विग्रहेभ्यः सविग्रहया गत्योपपद्यते, न चायं नियमः प्रतिपत्तव्योऽन्तर्गत्याऽवश्यं विग्रहवत्या भवितव्यम् , किन्तु येषां विग्रहवती तेषां प्राक् चतुभ्यो विग्रहा भवति, येषां जीवानामुपपातक्षेत्रवशाद् विग्रहवती गतिर्भवति तेषां विग्रहत्रययुक्ता प्रकर्षतो द्रष्टव्या । अमुमेवातिक्रान्तमशेष भाष्यार्थ व्यक्तिमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org