________________
१८० तत्त्वार्थाधिगमसूत्रम् ।
[ अध्यायः २ बज्झतित्ति ? हंता गोयमा !" कार्मणयोगकाले चास्ति चलनं, तत कथं बन्धादिलक्षणोपभोगप्रतिषेधः ? । उच्यते-भवस्थमाश्रित्य भगवता मूत्रं प्राणायि, ज्ञानावरणाद्यास्त्रवाणां तदैव सद्भावात् , अपिच अल्पः कालः समयद्वयं कस्तत्रोपभोगेनाभिसम्बन्ध इति, स्याद वा काययोगप्रत्ययस्तत्र बन्धः स तु न विवक्ष्यते भाष्यकारेण, ज्ञानावरणाद्यास्रवविशेषाहितबन्धनिराकारसूत्रं व्याख्यास्यत इति, एवं तानुपूर्वीनामकर्मोपभोगस्तदैव नान्यदा जन्तोरन्यत्र केवलिद्विचरमसमयात्, ज्ञानावरणाद्युपभोगश्च यथासम्भवमतः कथमुपभोगप्रतिषेध इति ?। उच्यते-पुनः पुनर्विरुवन्मुधा कदर्थयसि त्वमस्मान् , तत्रैव सूत्रे निश्चयिष्यते एतद् अभिव्यक्तरूपा हिंसादयो न तत्र सन्ति, न च तदनुरूपफलोपभोग इति व्यक्तिमावेश्य चेतसि प्राणैषीत् सूत्रमाचार्यस्तस्मादवस्थितमिदम्-विग्रहगतो कार्मण एव योगः, न शेष इति ॥ २६॥
अथ येषां जीवानां गतिर्भवान्तरप्रापिणी सा किं यथाकथंचिद् भवति, आहोस्विदस्ति कश्चिनियमः १ । अस्तीत्युच्यते
सूत्रम्-अनुश्रेणिर्गतिः॥ २-२७॥ टी--अथवा किं पुनरयमात्मा भवान्तरप्राप्तौ वक्रां गति प्रतिपद्यते गतिनियमात् कुतश्चिदुताहो यथाकथंचिदिति ?। गतिनियमात् इत्याह-कः पुनरसौ गतिनियमः ? उच्यते--अनुश्रेणिर्गतिः। श्रेणिः-आकाशप्रदेशपङ्किः स्वशरीरावगाहप्रमाणा, प्रदेशाचामूर्ताः क्षेत्रपरमाणवोऽत्यन्तसूक्ष्माः नैरन्तर्यभाजः, सा चासङ्ख्येयप्रदेशा जीवगतिविवक्षायाम् , अन्यत्र मौक्तिकहारलतेव एकैकाकाशप्रदेशरचनाहितस्वरूपाऽपि ग्राह्या, परमाणोस्तावत्यामेव व्यवस्थानात् , न्यणुकादेस्तावत्यामधिकायां चेत्येवमनन्तप्रदेशिकस्कन्धपर्यवसानं पुद्गलद्रव्यमुपयुज्य वाच्यम् । तत्रानुश्रेणीति । श्रेणिमनु अनुश्रेणि श्रेण्यामनुसारिणी गतिरितियावत् , अनुगङ्गं वाराणसी यथा । गमनं-गतिः-देशान्तरप्राप्तिः, सा चाकाशश्रेण्यभेदवर्तिनी स्वयमेव समासादितगतिपरिणतेजन्तोर्गतिहेतुसकललोकव्यापिधर्मद्रव्यापेक्षा प्रादुरस्ति, भवान्तरसङ्क्रान्त्यभिमुखो जीवो मन्दक्रियावत्त्वात् कर्मणो यानेवाकाशप्रदेशानवष्टभ्य शरीरवियोगं करोति तानेवाभिन्दन् देशान्तरं गच्छत्यूर्ध्वमधस्तिर्यग्वा, विश्रेणिगत्यभावाद् ,
धर्मास्तिकायाभावाच्च परतो लोकपर्यन्ते एव व्यवतिष्ठते, लोकनिष्कुटोनियमः
- पपातक्षेत्रवशाच्च भवान्तरप्राप्ताक्वश्यमेव धर्माज्जीवो वक्रां गतिं प्रतिपद्यते,
पुद्गलानामपि परप्रयोगनिरपेक्षाणां स्वाभाविकी गतिरनुश्रेणिर्भवति यथाऽणोः प्राच्यात् लोकान्तात् प्रतीच्यं लोकपर्यन्तमेकेन समयेन प्राप्तिरिति प्रवचनोपदेशः, परप्रयोगापेक्षया त्वन्यथाऽपि गतिरस्तीति ॥ बध्यते ? हन्त गौतम।।
तिरनुश्रेणिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org