________________
सूत्रं २६] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१७९ (अ० २, सू०४२), 'सर्वस्य' (अ ०२, सू० ४३) इतिवचनात् तैजसयोगसद्भावोऽपि, अतोऽष्टविधेन काययोगेन भवितव्यम् , ततश्च षोडशभेदो योगः स्यात् , अवधारणं च भाष्ये कर्मकृत एवेति तदप्यसमीक्ष्य कृतं स्यात् , तत्रोच्यते-'सर्वस्य' (अ०२, सू० ४३) इत्यत्र सूत्रे तैजसयोगमाचार्योऽन्यमतेन निराकरिष्यति, 'एके त्वाचार्याः नयवादापेक्षम् ' (अ०२, सू०४३) इत्यादिना भाष्येण, अतः क्रममुदीक्षस्व मा त्वरिष्ठाः, तत्रैवेदं निश्चेष्यते, समासतस्तावद तैजसस्य भिन्न
गृहाण-तैजसं कार्मणान्न भिन्नमेकमेवेदमित्यतः पञ्चदशधा योगः, योगाभावः
अवधारणमपि भाष्ये नासमञ्जसमिति । सोऽयमधुना जीवेषु पञ्चदश विधो
योगः आयोज्यते-संज्ञिमिथ्यादृष्टेरारब्धो यावत् सयोगकेवली तावदाद्यतुयौँ मनोयोगौ लभ्येते, एतेष्वेव च स्थानेषु सत्यवाग्योगोऽपि, तुरीयः पुनर्वाग्योगो द्वीन्द्रियमिथ्यादृष्टेरारब्धो यावत् सयोगिकेवली तावत् समस्ति, द्वितीयतृतीयवाग्योगौ संज्ञिमिथ्यादृष्टेरारब्धौ यावत् क्षीणकषायवीतरागच्छद्मस्थस्तावल्लभ्यते । एवं मनोयोगावपि द्वितीयतृतीयौ । ऋजुगत्यां यावद् भवान्तरसम्प्राप्तिस्तावदन्तराले यथासम्भवमौदारिकवैक्रियकाययोगौ भवतः, वक्रायां तु पुनस्तौ विनिवर्तेते, नारकसुरा वैक्रिययोगभाजः, तिर्यग्
जा मनुष्या औदारिकवैक्रिययोगिनः, आहारकयोगः प्रमत्तेन निष्पाद्यते
" पश्चादप्रमत्तस्य भवति, एत एव हि नारकादयोऽपर्याप्तकावस्थावर्तिनो मिश्रयोगभाजो भवन्ति, औदारिकवैक्रिये येषां ग्राह्ये पुरोजन्मनि तेषां कार्मणेन मिश्रः, यस्याहारकं ग्राह्यं तस्यौदारिकेण मिश्रः, सम्यग्मिथ्यादृशमपहाय मिथ्यादृष्टेरारब्धोऽन्तर्गतौ कार्मण एव योगस्तावल्लभ्यते यावदुपशान्तकषायवीतरागच्छमस्थ इति । केवलिसमुदघातकाले च तृतीयचतुर्थपश्चमसमयेषु कार्मण एव । सूत्रे चावधियते विग्रहगतेः, न कर्मयोगः, ततोऽन्यत्रापि दर्शनादिति, द्वितीयषष्ठसप्तमेष्वौदारिककार्मणमस्ति, प्रथमाष्टमयोरौदारिक एव, एवमन्यत्र तु यथोक्तः कायादियोगः समायोजितो भवति ॥ अथ विग्रहगतौ कर्मयोग इतिवचनादेकविग्रहायामपि गतौ कार्मण एव योगः कमान्न भवति ? साऽपि हि विग्रहगतिर्भवत्येवेति । उच्यतेविग्रहगताविति न न्याप्तिर्विवक्षिता तिलतैलवत्, किन्तु विषयो विवक्षितः खे शकुनिरुदके मत्स्य इति यथा, अवश्यं चैतदेवं ग्रहीतव्यम्, अन्यथा द्विविग्रहायां त्रिविग्रहायां वा गतावाधन्तयोरपि समययोः कार्मणयोगः प्रामोति, इष्यते च द्विविग्रहायां मध्यमसमये त्रिविग्रहायां मध्यमयोर्द्वयोरिति ॥ ननु च विग्रहगतिसमापन्नः कार्मणेन योगेन भवान्तरं सङकामति तत् कथं 'निरुपभोगमन्त्यम् ' ( अ० २, मू० ४५ ) इति वक्ष्यते, अयमेव हि
तस्योपभोगो यदुत भवान्तरसङ्क्रान्तिरिति ? । उच्यते-विशिष्टः सूत्रे विग्रगहतौ निरुपण सुखदुःखयोरुपभोगः कर्मवन्धानुभवो निर्जरालक्षणश्च प्रतिषेत्स्यते, न
चेष्टारूप इति । अथ कथं सूत्रमिदम् ?-"जावं च णं भंते ! अयं जीवे एयति वेयति चलति फंदति तावं च णं णाणावरणिजेणं जाव अंतराइएणं
१ यावच भदन्त ! अयं जीव एजते व्येजते चलति स्पन्दते तावच्च ज्ञानावरणीयेन यावद् अन्तरायिकेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org