________________
सूत्रं १९] स्वीपज्ञभाष्य-टीकालङ्कृतम्
१६७ मकर्म च गतिजात्यादिनामकर्म तेन जनिता-निवर्तिता, मनुष्यगतिनामोदयान्मनुष्यस्तथा पश्चेन्द्रियजातिनामोदयात् पञ्चेन्द्रिय इत्यतो मनुष्यत्वपञ्चेन्द्रियत्वादिलामे प्रतिस्वं तदावरणकर्मक्षयोपशमो निर्वय॑ते, तस्य क्षयोपशमस्य गतिजातिप्रभृतिनामकर्मकारणत्वानिर्दिटमाचार्येण । आदिग्रहणेन यत् तदत्र नान्तरीयकं शरीरादिक्षयोपशमलब्धर्नामान्तःपाति तत् सकलमादीयते । अपरे त्वायुष्कमपि तदाश्रयत्वात् कारणमाचक्षते क्षयोपशमस्य, एवं विदूरवर्ति कारणमपदिश्याधुना प्रत्यासन्नतरकारणान्तरमाविष्करोति-तदावरणीयकर्मक्षयोपशमजनिता चेति। तस्याः खलु रूपादिग्रहणपरिणतेरावरणीयमावारकमाच्छादकं, बाहुलकात् कर्तरि व्युत्पत्तिः, तदावरणीयं च तत् कर्म च तदावरणीयकर्म मतिज्ञानदर्शनावरणकर्मेत्यर्थः,तस्योभयस्य क्षयोपशमोऽभिहितलक्षणस्तज्जनिता च तनिष्पादिता चेत्यर्थः।चशब्द: पूर्वकं कारणं समुचिनोति ॥ ननु च क्षयोपशम एव लब्धिरुक्ता तेन जनितान्या का भवेल्लब्धिः । उच्यते-मतिज्ञानदशेनावरणक्षयोपशमावस्थानिवृत्तौ यो ज्ञानसद्भावःक्षायोपशमिकः सोऽत्र लब्धिरुच्यते, कथं कृत्वोक्तं प्राक् क्षयोपशमो लब्धिरिति कारणे कार्योपचारमालम्ब्य नवलोदकं पादरोगवदित्यभिहितमतो न दोषाय । अन्ये पुनराहुः-अन्तरायकर्मक्षयोपशमापेक्षा इन्द्रियविषयोपभोगज्ञानशक्तिलब्धिरुच्यते । पुनः प्रत्यासन्नतमकारणनिर्दिदिक्षया भाष्यकृत् प्रतनुते ग्रन्थम्-इन्द्रियाश्रयकर्मोदयनिवृत्ता च जीवस्य भवतीति । इन्द्रियाण्याश्रयोऽवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि कर्माणि यावन्ति कानिचिन्निर्माणाङ्गोपाङ्गादीनि यैर्विना तानि न निष्पद्यन्ते तदुदयेन-तद्विपाकेन निर्वृत्ता-जनितात्मनो लब्धिरुद्भवति, स्वच्छे हि दर्पणतले प्रतिबिम्बोदयो भवति, न मलीमसे, तथा निमोणाङ्गोपाङ्गादिभिरत्यन्तविमलतद्योग्यपुद्गलद्रव्यनिर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलब्धेरतुलं बलमुपयच्छन्ति, कारणतां बिभ्रतीति । सैपा लब्धिः कारणत्रयापेक्षा पञ्चप्रकारा भवति । तद्यथा-स्पर्शनेन्द्रियलब्धिरित्यादि भाष्यम् । यथा तत् पश्चविधत्वं तस्यास्तथा दर्शातेस्पृष्टिः-स्पर्शनं, स्पर्शनं च तदिन्द्रियं चेति स्पर्शनेन्द्रियम् , एतदेव लब्धिः स्पर्शनेन्द्रियलब्धिः शीतोष्णादिस्पर्शपरिज्ञानसामर्थ्यमनभिव्यक्तमुपयोगात्मनेतियावत् । एवं जिहेन्द्रियादिलब्धयोऽपि वाच्याः । इतिशब्दो लब्धेरियत्तामावेदयति ॥ १८॥ ____ उक्ता लब्धिः, अधुनोपयोग उच्यते-यदि लब्धिनिर्वृत्युपकरणक्रमेणोपयोगस्ततोऽतीन्द्रियोपयोगाभावो निवृत्त्याद्यपेक्षाभावात् । एतदुक्तं भवति-अवध्यादीनामतीन्द्रियत्वादत्यन्ताभाव एव विशेषो वाच्यः ? । उच्यते-न खुल सर्व उपयोगो लब्धिनिर्वृत्त्युपरकरणेन्द्रियकृतः, किं तर्हि स एवैकस्त्रितयनिमित्त इत्यत आह
सूत्रम्-उपयोगः स्पर्शादिषु ॥ २-१९ ॥ भा०-स्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः। उक्तमेतदुपयोगो लक्षणम् (अ० २, सू०८)। उपयोगः प्रणिधानम् । आयोगस्तद्भावः परिणाम इत्यर्थः । एषांच
१ 'चायुष्कम्' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org