________________
१६६
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २
I
म्त्रतापादनं चक्षुर्नासिकयोरञ्जननस्याभ्यामुपस्कारः तथा भेषजप्रदानाज्जिह्वाया जाड्यापनयः स्पर्शनस्य विविधचूर्णगन्धवासप्रघर्षात् तदिति विमलत्वकरणम्, एवंविधानेकविशेषनिरपेक्षा यथोत्पन्नवर्तिनी औदारिकादिप्रायोग्यद्रव्यवर्गणा मूलकारणव्यवस्थितगुण निर्वर्तनोच्यते । इतिशब्द एवशब्दार्थः, एवमेषोऽर्थः प्रवचनविद्भिराख्यात इति ॥ सम्प्रत्युपकरणेन्द्रियस्वरूपमाख्यातुमाह – उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति । निर्वृत्तौ सत्यां कृपाणस्थानीयायामुपकरणेन्द्रियमवश्यमपेक्षितव्यम्, तच्च स्वविषयग्रहणशक्तियुक्तं खङ्गस्येव धारा छेदनसमर्था तच्छक्तिरूपमिन्द्रियान्तरं निर्वृत्तौ सत्यपि शक्त्युपघातैर्विषयं न गृहृणाति तस्मान्निर्वृत्तेः श्रवणादिसंज्ञके द्रव्येन्द्रिये तद्भावादात्मनोऽनुपघातानुग्रहाभ्यां यदुपकारि तदुपकरणेन्द्रियं भवति, तच्च बहिर्वर्ति, अन्तर्वर्ति च, निर्वृत्तिद्रव्येन्द्रियापेक्षयाऽस्यापि द्वैविध्यमावेद्यते । यत्र निर्वृत्तिद्रव्येन्द्रियं तत्रोपकरणेन्द्रियमपि न भिन्नदेशवर्ति तस्येति कथयति तस्याः स्वविषयग्रहणशक्ते र्निर्वृत्तिमध्यवर्तिनीत्वात् । एतदेव स्फुटयति- निर्वर्तितस्य - निष्पादितस्य स्वावयवविभागेन यदनुपहत्यात अनुग्रहेण चोपकरोति ग्रहणमात्मनः स्वच्छतरपुद्गलजालनिर्मापितं तदुपकरणेन्द्रियमध्यवस्यन्ति विद्वांसः आगमे तु नास्ति कश्चिदन्तर्बहिर्भेद उपकरणस्येत्याचार्यस्यैव कुतोऽपि सम्प्रदाय इति । एवमेतदुभयं द्रव्ये - न्द्रियमभिधीयते तद्भावेऽप्यग्रहणात् उपकरणत्वान्निमित्तत्वाच्चेति । निर्वृत्तेरादावभिधा जन्मक्रमप्रतिपादनार्थं तद्भावे ह्युपकरणसद्भावाच्छस्त्रशक्तिवदिति ॥ १७ ॥
"
अथ भावेन्द्रियं किमित्यत्रोच्यते
भावेन्द्रियभेदौ सूत्रम् -- लब्ध्युपयोगौ भावेन्द्रियम् ॥ २- १८ ॥
उपकरणेन्द्रियस्वरूपम्
भा० - लब्धिरुपयोगस्तु भावेन्द्रियं भवति । लब्धिर्नाम गति जात्यादिनामकर्मजनिता तदावरणीयकर्मक्षयोपशमजनिता च । इन्द्रियानकर्मोदयनिवृत्ता च जीवस्य भवति । सा पञ्चविधा । तद्यथास्पर्शनेन्द्रियलब्धिः, रसनेन्द्रियलब्धिः, घ्राणेन्द्रियलब्धिः, चक्षुरिन्द्रियलब्धिः, श्रोत्रेन्द्रिपलब्धिरिति ॥ १८ ॥
लब्धीन्द्रियस्य कारणत्रयापेक्षत्वं भेदाश्च
टी० --- लब्ध्युपयोगी भावेन्द्रियम् । लब्धिः प्रतिस्वमिन्द्रियावरण कर्मक्षयोपशमः, स्वविषयव्यापारः प्रणिधानं वीर्यमुपयोगः, एतदुभयं भावेन्द्रियमात्मपरिणतिलक्षणं भवति । अत्राचार्यो लब्धिस्वरूपनिर्वर्णनायाह- लब्धिर्नामेत्यादि भाष्यम् । लाभो लब्धिः प्राप्तिः । नामशब्दो वाक्यालङ्कारार्थः । अथवा लब्धिरिति यदेतन्नामाभिधानं तस्यायमर्थः गतिजात्यादिनामकर्मजनिता लब्धिरुच्यते । गतिजाती आदिर्यस्य तद् गतिजात्यादि, गतिजात्यादि च तन्नाम१' वा भवति जीवस्य ' इति त्र - पाठः ।
लब्धीन्द्रियस्वरूपम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org