________________
१६८
तत्वार्थाधिगमसूत्रम्
[ अध्यायः २
सत्यां निर्वृत्तावुपकरणोपयोगी भवतः, सत्यां च लब्धौ निर्वृत्युपकरणोपयोगा भवन्ति । निर्वृत्त्यादीनामेकतराभावेऽपि विषयालोचनं न भवति ॥ १९ ॥
दी० - उपयोगः स्पर्शादिषु । स्पर्शरसगन्धवर्णशब्देषु ग्रहणरूपो व्यापार उपयोगो गृह्यते स्पर्शनेन्द्रियादिनिमित्तो नावध्याद्युपयोगः । अमुमेवार्थं स्पष्टयन् भाष्यकृदाहस्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः । स्पर्शादिविषयो मतिज्ञानव्यापारः प्रतिनियतविषयानुभवनमुपलम्भन मिति, अनेन शेषज्ञानव्युदासमादर्शयति मतिज्ञानोपयोग एव लब्धिनिर्वृत्युपकरणापेक्षः प्रवर्तते न शेष इति । अत्रोपयोगसामान्य श्रत्यपहुतावधानवोदयति-स्पर्शादिविषयो य उपयोगपरिसमाप्तिव्यापार इत्युक्तम् । एतच्च परमाणुद्रयणुकादिष्वपि दृष्टम्, परमाणुरपि हि सर्वात्मनोपयुज्यते द्वयणुकादिस्कन्धपरिणामे, ततश्च सोsयुपयोगलक्षणं प्राप्नोतीत्यत आह भाष्यकारः - उक्तमेतदुपयोगो लक्षणमिति । अथवा भाष्यकारः स्वयमेवोपयोगविशेषव्याख्यामातितनिषुराह - उक्तमेतदित्यादि । अभिहितमेतदुपयोगचैतन्यपरिणामो जीवस्य वैशेषिकं लक्षणं कः परमाण्वादिष्वत्र प्रसङ्गोत्यन्तास - म्बन्ध एव । तमेवोपयोगं पर्यायतः कथयति चैतन्यलक्षणं विशेषव्याख्यानदर्शनद्वारेणउपयोग : इत्यादि । उपयोगस्तु द्विविधा चेतना - संविज्ञानलक्षणा
रूपम्
उपयोगेन्द्रियस्व- अनुभवनलक्षणा च, तत्र घटाद्युपलब्धिः संविज्ञानलक्षणा, सुखदुःखादिसंवेदनानुभवनलक्षणा एतदुभयमुपयोगग्रहणाद् गृह्यते । प्रणिधानमवहितमनस्कत्वम्, एतदुत्कीर्तयति - स्पष्टो हि मतिज्ञानोपयोगो मानसोपयोगावश्यम्भावी द्रव्येन्द्रियाद्यपेक्षच नावध्याद्युपयोगस्तथेति आयोग इति । स्वविषयमर्यादया स्पर्शादिभेदनिर्भासो ज्ञानोदयः स्पर्शनेन्द्रियादिजन्माभिधीयते तद्भाव इति । उपयोगलाञ्छनो जन्तुस्तच्छब्देनामृश्यते तस्य भावः स्पर्शनादिद्वारजन्मज्ञानमात्मनो भूतिरुद्भव इतियावत्, परिणामोऽप्यात्मन एव तद्भावलक्षणो नार्थान्तरप्रादुर्भावलक्षणः, स्पर्शनादिनिमित्तज्ञानस्यात्म परिणतिरूपत्वादिह्यर्थः ॥ सम्प्रति प्रवृत्तौ क्रमनियममापादयन्नाह - एषामित्यादि भाष्यम् । एषामिति । व्याख्यातस्वरूपाणां निर्वृत्युपकरणलब्ध्युपयोगेन्द्रियाणामयं प्रवृत्तिनिवृत्त्यादीनां क्रमः क्रमो यदुत निर्वृत्तिः प्राक् तस्यां सत्यामुपकरणमुपयोगच भवति निर्वृत्र्याश्रयत्वादुपकरणस्य तद्द्वारजन्मत्वाच्चोपयोगस्य । एतच्च निर्वृच्यादित्रयं लब्धीन्द्रियपूर्वकं दर्शयति-श्रोत्रादिक्षयोपशमलब्धौ सत्यां निर्वृत्तिः शष्कुल्यादिका भवति यस्य
धर्नास्त्येवंप्रकारा न खलु तस्य प्राणिनः शष्कुल्यादयोऽवयवा निर्वर्तन्ते तस्माल्लब्ध्यादयश्चत्वारोऽपि समुदिताः शब्दादि विषयपरिच्छेदमापादयन्त इन्द्रियव्यपदेशमश्नुवते । एकेनाप्यवयवेन विकलमिन्द्रियं नोच्यते, न च स्वविषयग्रहण समर्थं भवति, अमुमर्थं भाष्येग दर्शयति — निर्वृत्यादीनामिति सूत्रोपन्यस्तक्रममङ्गीकृत्योच्यते निर्वृत्युपकरणलब्ध्युपयोगानामन्यतमाभावे एकेनाप्यङ्गेन विकले सति समुदायें न जातुचित् शब्दादि विषयस्वरूपावबोधो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org