________________
सूत्रं १६] . स्वोपज्ञभाष्य-टीकालङ्कृतम्
१६३ राहारादिग्रहणं वा नाकारीति, प्रवचने चोपदिष्टमजापाटकनिदर्शनम्, अत एव भगवद्भिरालोकितसकललोकस्वभावैरतः परमेश्वरोऽयं सर्वत्र सर्वस्य सर्वदा ईश्वरत्वाद् । यो व सर्वद्रव्यविषयमुक्तन्यायेन परमेश्वरत्वमस्यापहृते प्रवचनाद् बहिर्वर्तमानस्तं प्रति प्रकारान्तरेण परमेश्वरतामाविष्करोति-विषयेषु वा परमैश्वर्ययोगादिति । प्रसिद्धाः खलु विषयाः शब्दादयस्तद्विषयश्चात्मनः परिभोगोऽविगानेन प्रतिपन्नः प्रवादिभिस्तदेवास्य परमैश्वर्य विषयपरिज्ञानाधिकत्वात् , न खलु तं विहायात्मानमन्यो विषयान् भुङ्क्ते कश्चिज्जानीते वा। वाशब्दो विकल्पार्थः। तमेवमुभाभ्यां प्रकाराभ्यामात्मानमिन्द्रतायामवस्थाप्य सर्वनाम्ना परामृशति-तस्य लिङ्गमिन्द्रियमिति । तस्यैवंप्रकारस्यात्मन इन्द्रस्य लिङ्गं-चिह्नमविना
.. भाव्यत्यन्तलीनपदार्थावगमकारीन्द्रियमुच्यते, तदेव च लिङ्गमात्मापवना वगमहेतुतयाऽनेकप्रसिद्धतरपर्यायभेदेन दर्शयति-लिङ्गनादित्यादिना भाष्येण । लिङ्गनात्-अवगमनात् , तद्यथा-कश्चिच्छोत्रेणोपलभ्य शब्दान् मनोहरानुत्फुल्ललोचनयुगस्तदभिमुखदत्तावधानः सुखास्वादनिर्भरहृदयः सहसोपजायते रोमाञ्चकञ्चुकितच्छविः, तदत्रावगमयति विद्वन्मनांसि श्रोत्रमस्त्यत्रान्तर्वर्ती शरीरादिसवातविलक्षणः कोऽपि परमात्मा यस्यैवंविधा विकाराः समुपलक्ष्यन्ते शब्दमागृहीतवतः । एषैव च भावना स्तवनादीनामपि, लिङ्गपर्यायत्वात् । अथवेन्द्रियमिन्द्रलिङ्गमित्यत्र पञ्चास्तान् पश्चापि दर्शयत्यनेन भाष्येण । लिङ्गार्थोऽभिहित एव, सूचनादित्यनेन दिष्टार्थमाख्याति-जीवेन दिष्टानि-सूचितानि लेशतः प्रवर्तितानि तस्मिन् सत्यर्थग्रहणनिमित्तानि राजपुरुषवत् , जीवेन दृष्टानि प्रकर्षेण दर्शनमुपलब्धि ग्राहितानि नित्यसम्पृक्तत्वाज्जीवेन संसृष्टान्युपलम्भहेतुतया परिणामितानि, अन्यथा तदभावे तदनुत्पत्तिरेव, जीवेन जुष्टानि शब्दादीनां व्यञ्जकहेतुत्वादासेवितानि तदत्ययेानामग्राहकत्वात् । चशब्दः समुच्चये । जीवस्य लिङ्गमिन्द्रियमित्यनेनाभिहितार्थनिगममावेदयति तस्माज्जीवस्य यल्लिङ्गं तदिन्द्रियमिति ॥ १५॥
___ एवं तर्हि सुखदुःखेच्छादयोऽपि जीवलिङ्गत्वादिन्द्रियाणि स्युः, न खल्वेवमवधियते जीवलिङ्गं सर्वमिन्द्रियं किन्तु यदिन्द्रियं तज्जीवलिङ्गमिति नियमः, जीवलिङ्गं पुनर्जातुचिदिन्द्रियमथवा सुखादीनि ॥ उक्तानीन्द्रियाणि सङ्ख्यातः, प्रकारवचनेनाधुनाभिधित्सुराह
सूत्रम्-दिविधानि ॥ २-१६ ॥ भा०-विविधानीन्द्रियाणि भवन्ति-द्रव्येन्द्रियाणि भावेन्द्रियाणि
टी-द्विविधानि अविशेषोपादानात् पश्चापि द्विप्रकाराणि भवन्ति उत्तरसूत्रद्ध'सूचनादीना' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org