________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः २
44
भा० - पञ्चेन्द्रियाणि भवन्ति । आरम्भो नियमार्थः षडादिप्रतिषेधार्थश्च । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्र दत्तमिति वा " (पा० अ० २, पा० ५, सू० ९३ ) । इन्द्रो जीवः सर्वद्रव्येष्वैश्वर्ययोगात् विषयेषु वा परमैश्वर्ययोगात्, तस्य लिङ्गमिन्द्रियम्, लिङ्गनात् सूचनात् प्रदर्शनादुपष्टम्भनाद् व्यञ्जनाच्च जीवस्य लिङ्गमिन्द्रियम् ॥ १५ ॥
इन्द्रियसंख्या
टी० – पञ्चेन्द्रियाणि भवन्तीति । आरम्भो नियमार्थः । अन्यूनाधिकतयाऽवधार्यते एतावन्तीन्द्रियाणि प्रकर्षतो भवन्त्येकस्य जन्तोरित्येवंप्रकारो नियमः प्रतिपिपादयिषितः, तथा षडादिप्रतिषेधार्थश्च । पट् आदौ येषां तानि षडादीनि सामर्थ्यादिन्द्रियाण्येव सम्बध्यन्ते, अस्मादुपात्तेन्द्रियपञ्चकव्यतिरेकेण यावन्ति परैरभ्युपेयन्ते सर्वेषामत्र प्रतिषेधः, सूत्रारम्भादेव || ननु च नियमादेवेदमवाप्तमन्यूनानधिकानि पञ्चैवेति पुनः किमुच्यते षडादिप्रतिषेधार्थश्चेति १ । उच्यते - नियमस्यैतावत् फलं पञ्चैवेति सिद्धान्तोऽयं जैनः, तद्वयतिरिक्तेन्द्रियान्तराभ्युपगमवादी तु निराकार्योऽवश्यं दूषणमुत्प्रेक्ष्य सिद्धान्तप्रतिपादनम् वादिना, अतस्तद्वीजभूतमिदं वचनं षडादिप्रतिषेधार्थश्चेति । तत्र मनस्ताव दिन्द्रियं न भवति, इन्द्रियाणि चक्षुरादीनि स्वतन्त्राणि सन्ति रूपाद्यर्थग्रहणेषु प्रवर्तन्तेऽन्यनिरपेक्षाणि मनः पुनश्चक्षुरादीन्द्रियकलापविषयीकृतमनुपतति रूपाद्यर्थ, न साक्षादित्यतश्चक्षुरादिवनेन्द्रियं मनः, किन्त्वनिन्द्रियम्, एतच्चोपरिष्टाद् वक्ष्यते । तथा वागादयः किल वचनादिव्यापारपरायणत्वादिन्द्रियव्यपदेशभाज इत्येतदप्ययुक्तम्, नहि यथा चक्षुरादिद्वारजन्म विज्ञानं परिणमतेऽर्थग्रहणायैवं वागादिद्वारजन्मविज्ञानं वचनादिषु परिणतिमुपैति न च वाग्वचनयोः कश्चिद् भेदोऽस्ति शब्दात्मिका चेयमात्मप्रयत्नसंस्कारप्रयोगक्रमवर्तिनीत्वात् स च श्रोत्रेन्द्रियविषयः, न चेन्द्रियमिन्द्रियान्तरमास्कन्दिष्यते, नियतविषयत्वात् । तथा पाण्याद्यवयवक्रियाणामिन्द्रियत्वे भ्रूक्षेपस्तनभुजशिरस्फुरणक्रियाणामपीन्द्रियत्वं स्यात्, अथैता एव प्रतिविशिष्टावयवसाध्याः क्रियाः प्रदिश्यन्त इन्द्रियाकारेण नान्यास्ततो रुचिरेव युक्तितयाङ्गीकृता स्यात्, अपि च छिन्नपाणिः पादाभ्यामादत्ते, ध्वस्तचरणश्च पाणिभ्यां विहरति, विनष्टपायुप्रदेशा च भगन्दरव्याधिना योषिदुपस्थेनाप्युत्सृजतीत्येवमतिसङ्कीर्णता स्यात्, न चैवं कदाचिदन्धीभूतः श्रोत्रेण रूपमाददान उपलभ्यते, तस्माद् यत्किञ्चिदेतत् । प्रकृतमुच्यते - सङ्ख्याशब्दो व्याख्यातः । पञ्चैवेन्द्रियाणि भवन्ति । अधुनेन्द्रियाणीत्यस्यावयवस्य शब्दनिर्भेद दिदर्शयिषयाऽऽहइन्द्रियमिन्द्रलिङ्गमिति । एतावता शब्दप्राभृतप्रसिद्धं लक्षणमुपलक्षयति, स्वयमेव पुनर्व्याचष्टे - इन्द्रो जीवः सर्वद्रव्येष्वैश्वर्ययोगात्, इन्दनादिन्द्रः सर्व भोगोपभोगाधिष्ठान सर्वद्रव्य विषयैश्वर्योपभोगाज्जीवः तच्च पर्यायतोऽस्य सम्भवत्यनादौ संसारेऽनेकजन्मान्तरवृत्तेर्देवादिस्थानापेक्षया, न चास्ति किल कश्चित् प्रदेशो लोकेऽणुमात्रोऽपि यत्रैकेन जन्तुना न जन्ममरणे समनुभूते तिप्राणापानशरी
"
च
,
१६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org