________________
इन्द्रिया
१६४ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः २ यापेक्षया पश्चापि द्वाभ्यां विशेषाभ्यां भिद्यन्ते निर्वृत्युपकरणविशेषेण लब्ध्युपयोगविशेषेण
. चेति ॥ ननु चैवं दशेन्द्रियाणि प्रसजन्ति द्विःपञ्चकाभिधानात् ततश्च भेदी दाणा मुख्य नियमोऽनर्थकः षडादिप्रतिषेधश्चेति । उच्यते यद्येवमभविष्यद दशे
न्द्रियाणीति सूत्रमकरिष्यत् प्राक्तनम्, न चैवमाचरितं तस्मादाश्रयप्रकारकथनमेतद् विवक्षितमेकस्यैव द्वित्वेन, यथा हि भवनद्वारं दार्वाकाशपरिच्छेदवदपि न द्वय्यामवतिष्ठते द्वित्वेऽप्याकाशदारुणोः, प्रयोजनं चास्य निर्गमप्रवेशलक्षणमेकस्यैव, तथा लब्धिनिवृत्युपकरणोपयोगाः क्रमेणामुना चतुष्टयमिन्द्रियलक्षणमविशकलितम्, न चेन्द्रियबहुत्वम्, अत एव निवृत्त्यभावाच्छेषत्रययोगाच्च मनोनिन्द्रियमुक्तं तस्मादयमदोषोऽतः सुष्ट्रचे-द्विविधानीन्द्रियाणि भवन्ति । सामान्यतः द्रव्यमयानि द्रव्यात्मकानि द्रव्येन्द्रियाणि, भावन्द्रियाणि तु भावात्मकान्यात्मपरिणतिरूपाणीति । अत्र च पुद्गलद्रव्यमेवानन्तप्रदेशस्कन्धमात्मप्रयोगापेक्षमायतते नित्त्युपकरणरूपतया सर्वाणीन्द्रियाण्यनन्तप्रदेशानि असङ्ख्येयात्मप्रदेशाधिष्ठितानि च द्रव्यात्मकानि भवन्ति इतरत्र द्वये आत्मपरिणामो भावः प्रयत्नमातिष्ठत इति॥१६॥ उक्तमिन्द्रियं द्रव्यभावभेदतो द्विविधम्, अधुना स्वरूपतो निरूपयितुकाम आह
सूत्रम्-निर्वृत्युपकरणे द्रव्येन्द्रियम् ॥ २-१७॥ भा०-तत्र निवृत्तीन्द्रियमुपकरणेन्द्रियं च द्विविधं द्रव्येन्द्रियम् । निवृत्तिद्रव्येन्द्रियभेदी ।
रङ्गोपाङ्गनामनिर्वतितानीन्द्रियद्वाराणि, कर्मविशेषसंस्कृताः
'शरीरप्रदेशाः, निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिवर्तनेत्यर्थः । उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति ॥१७॥
टी-तत्र निवृत्त्युपकरणे द्रव्येन्द्रियम् । तत्रेयनेन भाष्यकारः सूत्रं सम्बन्धयति, तत्र द्वितये द्रव्येन्द्रियं तावनिर्धार्यते, स्वरूपभेदाभ्यां निवर्तनं निर्वृत्तिः प्रतिविशिष्टसंस्थानोत्पादः, उपक्रियतेऽनेनेत्युपकरणं निर्वृत्तिरेवेन्द्रियं निवृत्तीन्द्रियम्, उपकरणेन्द्रियमप्येवम् । उभयमेतत् पुद्गलपरिणामरूपमपि सदिन्द्रियव्यपदेशमनुते भावेन्द्रियोपयोगकारणत्वात्, यस्मात् हि तत्साचिव्यं भावस्यैवोपलिङ्गने समायाति आत्मभावपरिणामस्य भाविनो यत् सहायतया क्षमं द्रव्यं तदिह द्रव्येन्द्रियं प्रस्थदारुवदेषितव्यम् । तत्र निर्वृत्युपकरणयोः स्वरूपमाविष्करोति भाष्येणैव-निवृत्तिरङ्गोपाङ्गनामेत्यादिना। निर्माणनामकर्मान्तर्गतः कर्मभेदो वर्धकिस्थानीयः कर्णशष्कुल्याद्यवयवसन्निवेशवि
शेषरचनायामाहितनैपुणः, तथौदारिकादिशरीरत्रयाङ्गोपाङ्गनामकर्मभेदो निर्वृत्तीन्द्रिय
यदुदयादङ्गान्युपाङ्गानि च निष्पद्यन्ते शिरोङ्गुल्यादीनि, एतत् कर्म
द्वयमुभयरूपं द्रव्येन्द्रियप्रसाधनाय यतते । भाष्यभावना चैवं कार्या । १वोल्लिङ्गने ' इति क-ख-पाठः, 'वोपलिजनैः' इति ग-पाठः ।
विचारः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org