________________
१५८
तत्त्वार्थादिगमसूत्रम्
[ अध्यायः २
यदितः प्रभृति वक्ष्यते आ चतुर्थाध्यायपरिसमाप्तेस्तत् सर्वं संसारिणामित्यधिक्रियते । ते च संसारिणो जीवा द्विविधा भवन्ति, तद्यथा - त्रसाः स्थावराश्चेति । परिस्पष्टसुखदुःखे - च्छाद्वेषादिलिङ्गास्त्रसनामकर्मोदयात् त्रसाः, अपरिस्फुटसुखादिलिङ्गाः स्थावरनामकर्मोदयात् स्थावराः, आदौ च त्रसाभिधानं सुखग्रहणार्थम्, स्पष्टलिङ्गत्वात् समास उभयेषां परस्परसङ्क्रमार्थम्, त्रसाः स्थावरेषु स्थावराः त्रसेषु मृत्वोपजायन्त इति । एवं तावत् संसारिणो द्वैविध्येन विकल्पिताः -- त्रसाः स्थावराश्चेति ।। १२ ।।
सूत्रम् -- पृथिव्यम्बुवनस्पतयः स्थावराः ॥ २-१३ ॥
भा० - पृथ्वीकायिकाः, अष्कायिकाः, वनस्पतिकायिकाः इत्येते त्रिविधाः स्थावरा जीवा भवन्ति । तत्र पृथिवीकायोऽनेकविधः शुद्धस्थावराणां ३भेदाः पृथिवीशर्करावालुकादिः । अष्कायोऽनेकविधः हिमादिः । वनस्पतिकायोऽनेकविधः शैवलादिः ॥ १३ ॥
टी ० -तत्र स्थावरानेव तावद् वच्मः - पृथिव्यम्बुवनस्पतयः स्थावराः ॥ ननु च यथोद्देशं निर्देशः कर्तव्यः, प्रथमं वसा वक्तव्याः ततः स्थावराः । उच्यते - प्रेक्षापूर्वकारितयाऽऽचार्येण स्वरचितव्यवस्थां भित्त्वा स्थावरास्तावदभिहिताः । का पुनरसौ प्रेक्षापूर्वकारिता? भण्यते - वक्ष्यत्युत्तरसूत्रं (१४) 'तेजोवायू द्वीन्द्रियादयश्च त्रसाः, तत्र इन्द्रियप्रकरण - मधीत्य वक्ष्यति 'वाय्वन्तानामेकम् ' (अ०२, सू० २३ ) तत्रायमर्थः - पृथिव्यादीनां वाय्वन्तानामेकेन्द्रियं स्पर्शनं भवति, यदि पुनः पूर्वं त्रसाभिधानं कुर्यात् पश्चात् स्थावरानभिदध्यात् तथा ( दा) गौरवं जायेत, अर्थलाघवैषिणा सता क्रमो भिन्नः । तत्रेत्यनेन सूत्रं सम्ब न्धयति, तत्र द्वितये प्रस्तुते स्थावरास्तावदुच्यन्ते प्रयोजनार्थम् - पृथिवीकायिका इत्यादि भाष्यम् ॥ ननु च सूत्रे कायग्रहणं नास्ति, भाष्ये कथमकस्माद् विहायसोऽपतदिति । । उच्यते - लाघवार्थिना सूत्रे नोपात्तम्, विनाऽपि तेन सिद्धेः, भाग्ये तु यथेष्टमधिकमप्युच्चार्यते सूत्रार्थममुञ्चतेति । तत्र पृथिव्येव कायः पृथिवीकायः, स येषां विद्यते ते पृथिवीकायिकाः ॥ ननु च लघुत्वात् प्रक्रमस्य बहुव्रीहौ सति तदभिहितत्वान्मत्वर्थीयेन न भाव्यम्, ततश्च पृथिवी कायो येषां ते पृथिवीकायाः, सत्यमेवमेतत्, तथाप्यनरवन्ति चक्राणीत्येवमाद्यनेकप्रयोगदर्शनात् साधुत्वमत्रापि प्रतिपत्तव्यम् । अथवा पृथिवीकायादयो जातिशब्दास्ततश्च मत्वर्थीयः सिद्धः कृष्णसर्पवद्वल्मीकन्यायेनेति, एवमितरयोरपि योज्यमेतत् । इतिशब्दोऽर्थपदार्थकः । त्रिविधा एव स्थानशीला भवन्ति जीवाः पृथिव्यादयः, न पुनः स्थावरनामकर्मोदय निर्वृत्तानां त्रैविध्यं निर्धारयति, तेजोवाखोरपि तन्निर्वृत्तेरिति । स्थूलोत्तरद्वयाधारत्वादादौ न्यस्ता पृथिवी, तदन्यापस्तदाधेयत्वाल्लेश्याप्र'मृत्योपयात ' इति क ख पाठः । २ पृथ्व्यव्व' इति घ-पाठः । ३ ' लाघवार्थ' इति ख- पाठः ४' इतरेतरयोरपि ' इति क - ख- पाठः ।
<
१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org