________________
सूत्र १२] स्वोपज्ञभाष्य टीकालङ्कृतम्
१५७ क्तसनाचार्यत्वात् । अधुना सूत्रार्थः-समासत एवेत्यादि भाष्यम् । पुनरपि सक्षेपादेव द्वैविध्यमभिधीयते, जीवा इति प्रेक्षापूर्वकारितयोदचीचरद् इदं कषति चेतसि सूरीतानामप्यभिसम्बन्धप्रसङ्गः समनस्कामनस्कत्वेनेत्यतो जीवाः प्रतिविशिष्टायुर्द्रव्यसहिताः परिगृह्यन्त इति सिद्धव्युदासः । समनस्काश्चेति सह मनसा समनस्काः, तद्विरहितास्त्वितरे । किं पुनस्तन्मनो येन सम्बन्धात् समनस्का इति व्यपदिश्यन्ते ? । उच्यते-द्विविधं तद् द्रव्यभावभेदात् , तत्र मनोभिनिर्वृत्त्यै यद् दलिकद्रव्यमुपात्तमात्मना सा
मनःपर्याप्तिाम करणविशेषः, तेन करणविशेषेण सर्वात्मप्रदेशवर्तिना मनसो द्वैवि4. याननन्तप्रदेशान् मनोवर्गणायोग्यान् स्कन्धान चित्तार्थमादत्ते ते करण
विशेषपरिगृहीताः स्कन्धाः द्रव्यमनोऽभिधीयते( न्ते )। भावमनस्तु जीवस्योपयोगः चित्तचेतनायोगाध्यवसानावधानस्वान्तमनस्काररूपः परिणामः । श्रुतज्ञानावरणक्षयोपशमजतया चैतन्मनोरूपं करणमिष्यतेऽर्हद्भिः, धारणा च मनोयुक्तस्यैव च जन्तोर्भवति, नेतरस्येति । अत्र ये द्रव्यभावमनोभ्यामुभाभ्यामपि युक्तास्ते समनस्काः, ये पुनर्भावमनसैवोपयोगमात्रेण मनःपयोप्तिकरणविशेषनिरपेक्षेण युक्तास्ते अमनस्काः, एषां मनःपर्याप्तिकरणनिर्वृत्त्यभावात् , चेतना तु तया पटीयसी भवति यथेतरेषां द्रव्यमनोऽवष्टम्भाद्, वृद्धयष्टिस्थानीयद्रव्यमनोऽवष्टम्भेन संज्ञिनः स्पष्टमनुचिन्तयन्ति । तत्पविभागवायम्-नारकदेवगर्भव्युत्क्रान्तिकमनुष्यतिर्यञ्चः समनस्काः, शेषास्त्वमनस्काः, तान् पुरस्तादू वक्ष्याम इति 'संज्ञिनः समनस्काः', पुरो-भविष्यति सूत्रे ( अ० २, सू० २५ ) व्याख्यास्यामः समनस्कामनस्कविशेषमिह पुनर्भेदमात्राख्यानमित्यावेदयति भाष्यकार इति ॥ ११ ॥ - अथ जीवप्रकारान्तरसङ्ग्रहप्रस्तावमेवोपजीवयन्नाहाचार्यः
सूत्रम्-संसारिणस्त्रसस्थावराः ॥ २-१२ ॥ संसारिजीवभेद भा०-संसारिणो जीवा द्विविधा भवन्ति-त्रसाः स्थावप्रदर्शनम् राश्च ॥ १२ ॥ तत्र ।
टी-संसारिणस्वसाः स्थावराः । इतः प्रभृति संसार्यधिकार एव आ अजीवकायाध्यायाद् वेदितव्यः । मुक्ताः पुनर्दशमेऽध्याये वक्ष्यन्ते । उक्तलक्षणः संसारः, स येषामस्ति ते तथोच्यन्ते ॥ ननु च संसारिणो मुक्ताश्चेति इह सूत्रे यत् संसारिग्रहणं तदेवानन्तरसूत्रसम्बन्धितमधिकरिष्यते नार्थः पुनः संसारिग्रहणेन । उच्यतेपूर्वकं संसारिग्रहणं भेदकथनाभिप्रायेण जीवानामवाचि, तच्च समनस्कामनस्कसूत्रे प्रयत्नतः सम्बन्धमुपनीतं नोत्तरत्र प्रवर्तितुमुत्सहते, इदं पुनर्न भेदप्रतिपत्तये, किन्तु
१ 'स्त्रसाः स्थावराः' इति ग- पाठः। २:पुनर्भेद' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org