________________
१५६ तत्त्वार्थादिगमसूत्रम्
[अध्यायः २ स संसारः-कर्माष्टकरूपः, स येषां विद्यते ते संसारिणः । अथवा संसारस्य शब्दार्थः ' बलवतो मोहस्याख्या संसारस्तत्सम्बन्धात् संसारिणः, नारका
द्यवस्था वा संसारः, तदवस्थायोगात् संसारिणः । मुच्यन्ते स्म मुक्ताः । कुत इति चेत् ? अनन्तरत्वात् संसारादिति वाच्यम् । अतो निधूताशेषकर्माणः संसारान्मुक्ता इति व्यपदिश्यन्ते । समस्य कस्माल्लाघवैषिणा निर्देशो नाकारि सूरिणेति ? उच्यते-भिन्नस्वभावप्रतिपादनार्थमुभयेषाम् , संसारिणो हि प्रागभिहितोपशमिकादिस्वभावास्तद्विनिमुक्तास्तु मुक्ताः । तथोभयत्रोभयोबहुवचनमानन्त्यप्रतिपतये, संसारिणोऽनन्ताः । मुक्ताश्चेति । संसारिणामादावुपन्यासः प्रत्यक्षबहुभेदवाच्यार्थः, तदनु मुक्तवचनं संसारिपूर्वकत्वप्रसिद्धयर्थ तत्साहचर्यादभावनिषेधार्थ च । एकैकाने कविकल्पज्ञापनार्थश्चशब्दः । संसारिणां तावत् समनस्कादिभेदोऽनन्तर एव वक्ष्यते, मुक्ता नामप्यनन्तरपरम्परतद्भेदाः शास्त्रपरिसमाप्तिदेशे वक्ष्यन्ते, प्रधानगुणभावख्यापनार्थो वा चशब्दो द्रष्टव्यः । ते जीवाः समासत इत्यादि भाष्यम् ॥ त इति औपशमिकादिभावभाजः समनन्तरव्यावर्णितोपयोगलाञ्छना जीवाः परामृश्यन्ते, समासतः-संक्षेपात् द्विप्रकारा भवन्ति, न तु विस्ताराभिधानतः, तच्च द्वैविध्यं दर्शयति-संसारभाजो मुक्तिप्राप्ताश्चेति ॥१०॥
किश्चान्यदित्यनेन सम्बन्धमाचष्टे सूत्रस्य भाष्यकारः, जीवाधिकारानुवृत्तावन्यदपि किश्चिद्भेदान्तरमुपदिश्यते
सूत्रम्-समनस्कामनस्काः ॥२-११ ॥ भा०-समासतस्त एव जीवा द्विविधा भवन्ति-समनस्काश्च अमनस्काश्च । तान् पुरस्तादू ( अ० २, सू. २५) वक्ष्यामः ॥ ११॥
टी०-समनस्कामनस्काः, कृतसमासनिर्देशात् संसारिण एव सम्बध्यन्ते न मुक्ताः, यदि च मुक्ता अपि सम्बध्येरन् न तर्हि समस्य निर्दिशेदाचार्यः, विशकलीकृत्य पूर्ववत् स्पष्टमभिदध्यादसमस्तमेव । कृतसमासनिर्देशे चायमभिप्रायः-नैष सङ्घातो विशकलीभूतः प्रयुज्यते विशेषणतया, किन्तु संहतरूप एवैकस्य, सम्भवतो विशेषणमिति, उभयसम्भवश्व संसारिणाम्, न मुक्तानाम्, अथवा व्याख्यानाद् विशेषप्रतिपत्तिः, संसारिणोऽभिसम्बध्यन्ते, न मुक्ताः, अथवा नेदं विधायकम्, किन्त्वनुवादकम् , येषां नामाम्नाये भिहितं समनस्कामनस्कत्वं तेषामेवानूद्यते, सिद्धानां पुनरमनस्कत्वमेव, नोभयमिति । अपरे पुनर्योगमुत्तरं विभजन्ते-संसारिण इति, यथोक्तलक्षणाः संसारिणो भवन्ति, ततः संसारिण इत्यनुवर्तमाने त्रसस्थावरा इति, अन्ये पुनः सूत्रमेव विपर्यासयन्ति विभज्य, प्राक् तावत् संसारिणः पश्चात् त्रसस्थावराः ततः समनस्कामनस्का इति, तदेतदयु
१ समासं कृत्वा इत्यर्थः। २ . परस्ताद् ' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org