________________
सूत्रं १३ ]
स्वोपज्ञभाष्य टीकालङ्कृतम् त्येकशरीरासङ्ख्येयत्वसाम्याच्च, ततो वनस्पतिरनन्तत्वात् , समासश्च परस्परसङ्क्रमज्ञानार्थः। अधुना स्वस्थान एव पृथिव्यादीनामनेकभेदमाचिख्यासुराह-पृथिवीकायोऽनेकविध इत्यादि भाष्यम् । पृथ्वीकायजात्यनतिक्रमेणानेकभेदता दर्श्यते-शुद्धपृथिवी वक्ष्यमाण
__शर्करादिभेदरहिता मृत्तिकारूपा गोमयकचवरायनेकेन्धनरहिता वा, पृथ्वीकायिकानामनेके भेदा:
तथा शर्करापृथिवी परिलघुकाश्मशकलव्यतिमिश्रा, वालुकापृथिवी
वालुकाव्यतिमिश्रा मृत्तिकेति । आदिशब्देनोपल-शिला-लवणोपायस्वपुताम्र-सीसक-रजत सुवर्ण-वैर-हरिताल-हिङ्गुलक-मनःशिला-सस्यकाञ्जन-प्रवालाभ्रपटलाभ्रवालिका-गोमेद रुचकाङ्क-स्फटिक-लोहिताक्ष-मरकत-मसारगल्ल-भुजगेन्द्रनील चन्दन-गैरिक-हंसगर्भ-पुलक-सौगन्धिक-चन्द्रसूर्यकान्त-वैडूर्य-जलकान्तप्रकाराः सर्वे बादरपृथिवीकायभेदा ग्राह्याः। एते च शुद्धपृथिव्यादयः स्वाकरस्था एव प्रायश्चैतन्यं विभ्रति, गोमयकचवरसविततापादिसम्पर्कात तु गतचेतना अपि जायन्ते, एषां च बादराणां यत्रैको जीवस्तत्रासङ्ख्येयैर्नियमतोभाव्यम, स्थानमपि चैषां पृथिव्यष्टकाधोऽधः पातालभवननरकास्तरादि । अपरं सूक्ष्मपृथिवीकायाः सर्वलोकव्यापिनः, उभयेपामपि चैपाममी परमषिप्रणीतप्रवचनप्रसिद्धा भेदा वेदितव्याः पर्याप्तकापर्याप्तकशरीरत्रयागुलासङ्ख्येयभागशरीरसेवार्तसंहननमसूरचन्द्रसंस्थानकषायसंज्ञाचतुष्काद्यलेश्यात्रयस्पर्शनेन्द्रियवेदनाकषायमारणान्तिकसमुद्घातासंज्ञिनपुंसकवेदपर्याप्तिचतुष्टयमिथ्यादर्शनाचक्षुर्दर्शनाज्ञानकाययोगसाकारानाकारोपयोगाहारादिप्रकाराः, विशेपास्तु बादरपृथिवीकायानामाद्याश्चतस्रो लेश्याः, शेषं समानम् , असङ्ख्येयाश्च प्रत्येकमुभये । कथं पुनरिदं विज्ञायते साकारानाकारोपयोगादिजीवलिङ्गकलापोऽत्राशेषप्राणिचिहभूतोऽस्तीति ? | उच्यते-आगमतो युक्तितश्च, आगमस्तावत्-" पुढेविकाइया णं भंते ! किं सागारोवओगोवउत्ता अणागारोवओगोवउत्ता ? गोयमा ! सागारोवओगोवउत्तावि अणागारोवओगोवउत्तावि" (प्रज्ञा० सू० ३१२ ) ॥ तथा "ऍढविकाइए णं भंते ! अक्कंते समाणे केरिसयं वेदणं पच्चणुभवति ? गोयमा ! से जहा नामए केइ पुरिसे तरुणे बलवं जुवाणे जाव निउणसिप्पोवगए एगं पुरिसं जुण्णं जराजजरियदेहं परिहीणसगलिंदियवियारं दुब्बलं किलंतं जमलपाणिणा मुद्धाणसि अभिहणेज्जा, से णं गोयमा ! पुरिसे तेणं जमलपाणिणा मुद्धाणंसि अभिहते समाणे केरिसयं वेयणं पच्चणुभवति ?, अणिहं सम
१' वालिका' इति क-ख-पाठः । २ ‘गोमेदक' इति क-ख-पाठः । ३ 'रुचकाह' इति ग-टी-पाठः । ४ पृथ्वीकायिकाः भदन्त ! किं साकारोपयोगोपयुक्ताः अनाकारोपयोगोपयुक्ताः ?, गौतम ! साका० अपि अना० अपि । ५ पृथ्विकायिको भदन्त | आक्रान्तः सन् कीदृशीं वेदना प्रत्यनुभवति ? । गौतम ! तद्यथानामकः कश्चित् पुरुषस्तरुणो बलवान् युवा यावत् निपुणशिल्पोपगत एक पुरुषं जीर्ण जराजर्जरितदेहं परिहीनसकलेन्द्रियव्यापार दुर्बल क्लाम्यन्तं पाणियमलेन मुनि अभिहन्यात्, स गौतम ! पुरुषस्तेन पाणियमलेन मूर्ध्नि अभिहतः सन् कीदृशी वेदना प्रत्यनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org