________________
सूत्र ९] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१५३ न्यत इति । मनःपर्यायज्ञानिनो हि भगवत्यामाशीविषोद्देशके (श०८, उ०२, सू०३२१) द्वे त्रीणि वा दर्शनान्युक्तानि, अतो गम्यते यो मनःपर्यायविदवधिमांस्तस्य त्रयमन्यस्य द्वयम् , अन्यथा हि त्रयमेवाभविष्यदिति । तत्रागमप्रसिद्धस्य व्याख्या क्रियते-निर्विकल्पोर्थोऽनाकारार्थः यद् दर्शनं तनिर्विकल्पम् , अतो न मनःपर्यायदर्शनप्रसङ्गः, तस्मात् तदेवास्तु पूर्वव्याख्यानम्, पर्यायाः-विकल्पास्तैः सहवर्ति साकारम् , अनाकारमालोचनमात्रं निर्विकल्पकमिति । उपयोगक्रमश्च द्रष्टव्यः-प्रागनाकारः पश्चात् साकार इति, प्रवृत्तौ क्रमनियमः, यतस्तु नापरिमृष्टसामान्यो विशेषाय धावति । यद्येवं ततः सूत्रमित्थमध्येय-स द्विविधचतुरष्टभेद इति । उच्यते-पारमर्षप्रवचनप्रसिद्धक्रमानुवृत्त्या सूत्रं न्यवनीत सूत्रकारः" कतिविहे णं भंते ! उवओगे पण्णत्ते ? गोयमा! दुविहे पण्णत्ते, तंजहा-सागारोवओगे य अणागारोवओगे य" (प्रज्ञा० प० २९, सू० ३१२ )। अथार्ष एव कैमर्थक्यात् क्रमभेदः । उच्यते-बहुभेदत्वाद् बहुवक्तव्यत्वाच्च प्राक् साकारोपन्यासस्ततोऽनाकारः स्वल्पभेदवक्तव्यत्वात् , मत्यादिज्ञानेषु च व्याख्यातेषु प्रायश्चक्षुर्दर्शनाद्यपि व्याख्यातमेवेति यत्किञ्चिदुत्तरत्र व्याख्येयं स्यात्, अतोऽपि युज्यते प्रथमतः साकारोपयोग इति । चशब्दः समुच्चितौ । साकारश्चोपयोगोऽनाकारोपयोगश्च । एतदेवोपयोगद्वयं प्रसिद्धतरवाक्यान्तरेण निरूपयन्नाह-ज्ञानोपयोगो दर्शनोपयोगश्चेत्यर्थः । एतावानुपयोगो भवन् भवेद् यदुत ज्ञानरूपो दर्शनरूपश्चेति, नातोऽन्य उपयोगः समस्ति ॥ ननु च ज्ञानदर्शनाउपयोगे ज्ञानदर्शन
. भ्यामर्थान्तरभूत उपयोगोऽस्त्येकान्तनिर्विकल्पः, एवं च विग्रहगतिसे प्राप्तानां ज्ञानदर्शनोपयोगासम्भवेऽपि जीवलक्षणव्याप्तिरन्यथा ह्यव्या
पकं लक्षणं स्यात् , तेषां हि द्रव्येन्द्रियमनसामभावादुपयोगोऽस्त्येकान्तनिर्विकल्पः, एवं च विग्रहगतिप्राप्तानां ज्ञानदर्शनोपयोगासम्भवेऽपि तन्निमित्तं मतिज्ञानं नास्ति, ततश्च तत्पूर्वकं श्रुतमपि न सम्भवति, अतस्तेषां ज्ञानदर्शनोपयोगामावादजीवत्वं स्यादिति, तदेतत् सर्वमयुक्तमुक्तम् , स्वसिद्धान्तानवबोधात् , इह प्रवचने मत्यादीनि लब्धित उपयोगतश्च चिन्त्यन्ते, तत्र सम्यग्दृष्टेरविरतो जघन्यतरोऽन्तर्मुहूर्तपरिणामकालं प्रकर्षतः षट्रषष्टिसागरोपमाणि साधिकानि लब्धिमङ्गीकृत्याधीतः, उपयोगतोऽन्तर्मुहूर्तमेव जघन्योत्कर्षाभ्याम्, मिथ्यादृष्टेरनादिमत्यज्ञानादि कस्यचित्, कस्यचित् तु सादि भवति लब्धितः, उपयोगतस्तु तस्याप्यन्तर्मुहूर्तमवस्थानम्, तत्र यदेतदुच्यते द्रव्येन्द्रियमनसामभावान्मतिज्ञानं नास्ति तत्पूर्वकं श्रुतमपि नास्ति तन्मिथ्या, आगमविरोधश्च" जाइस्सरोउ भगवं, अप्पडिवडिएहिं तिहिं उ नाणेहिं" (आव०नि० ऋषभजन्माधिकारे )। यदि तदा मतिश्रुते न स्तः कथमप्रतिपतितज्ञानश्रुच्युवे भगवान् नाकपृष्ठतः । तथाऽमुनाऽ
१ कतिविधो भदन्त ! उपयोगः प्रज्ञप्तः ? गौतम ! द्विविध उपयोगः प्रज्ञप्तः, तबू यथा-साकारोपयोगबानाकारोपयोगश्च । २ जातिस्मरस्तु भगवान् , अप्रतिपतितैत्रिभिनैिर्युक्त एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org