________________
१५४ तत्त्वार्थादिगमसूत्रम्
[ अध्यायः २ प्याचार्येणोक्तम्-'ज्ञानैः पूर्वाधिगतैः' (सम्बन्ध-का० १२) इत्यादि, तथा भगवत्यामाशीविषोदेशके (श०८, उ०२, सू० ३१९) “ अपज्जत्तगाणं भंते ! जीवा किं नाणी अण्णाणी? तिन्नि गोयमा! नाणा तिन्नि अण्णाणा भयणाए", तथा तस्यामेवैकोनविंशतिशते "मइअण्णाणी णं भंते ! मतिअण्णाणभावेणं किं पढमे अपढमे ? गोयमा ! नो पढमे अपढमे, एवं सुअअण्णाणीवि" ॥ ननु चागम एवोपयोगात्मा ज्ञानदर्शनव्यतिरिक्त उक्तः, भगवत्यां द्वादशशते-द्रव्यकषाययोगोपयोगज्ञानदर्शनचरणवीर्यात्मानोऽष्टौ भवन्ति, अत्र चोपयोगात्मा पृथगुपात्तः, स च विग्रहगतौ जीवानां भविष्यति, एतदपि वार्तम् ,यस्मात् तस्मिन्नेवात्माऽष्टकाधिकारे (श०१२, उ०१०, सू०४६७) उक्तम्-" जैस्स दवियाता तस्स उवयोगाता णियमा अत्थि, जस्स उवयोगाता तस्स नाणाया वा दसणाया वा णियमा अत्थि" एवं सूत्रेऽतिस्पष्टेऽपि विभक्ते न विद्मः कुत इदं तेषां मोहमलीमसधियामागतम् ? अपिच-सूत्रे ज्ञानदर्शने एवोपयोगतामापन्ने बहिराकारपरिणतिनी सती समुपात्ते उपयोगग्रहणेन, न पुननिदर्शनव्यतिरिक्तः कश्चिदुपयोग इति, तथा तु ज्ञानदर्शनात्मैव, क्रोधादिकपायपरिणतः कषायात्मा उच्यते, न तद्वयतिरिक्तोऽन्यस्तथाऽयमपि भविष्यति । एतेन कर्मानावृतप्रदेशाष्टकाविकृतचैतन्यसाधारणावस्थोपयोगभेदः प्रत्यस्तोऽवगन्तव्यः, तथा विग्रहगतिभाजामपयोप्तकानां च जीवानामागमे लब्धीन्द्रियमुक्तम्-" जीवे णं भंते ! गब्भाओ गभं वक्कममाणे किं सइंदिए वक्कमइ अणि दिए वक्कमइ ? गोयमा ! सिय सइंदिए सिय आणि दिए, से केणटेणं भंते ! एवं वुच्चइ ? गोयमा ! दव्विन्दियाइं पडुच्च अणिदिए वक्कमति, लद्धिन्दियाई पडुच्च सइंदिए वक्कमति" (भग० श०१, उ०७, सू०६१)। तस्मादात्मनोऽवस्थाद्वयवर्तिनोऽवश्यं लब्धीन्द्रियमभ्युपेयम्, तदाश्रितं च मतिज्ञानादि, केवलं बाह्यकरणानिवृत्तौ ज्ञान विभागो नास्ति करणकृतस्तत्रेति । अथैतत् स्यात् , न ज्ञानसद्भावमपहमहे तदा वयम्, किन्तु ज्ञाने सत्यप्युपयोगो नास्तीति ब्रूमः, तदेतत् सुप्ताद्यवस्थास्वपि समानम् , अथवा विलक्षवचनमित्यपकर्ण्यम् । तस्मादवस्थितमिदम्-द्विविध एवोपयोगो ज्ञानदर्शनाख्यः तद्वयतिरिक्तस्तु नास्ति । स इदानी द्विविध उपयोगो यथासङ्ख्यं यथानिर्देशमष्टभेदश्चतुर्भेदश्च भवति । पुनःशब्दः संख्यानियमार्थः । नातः परं विकल्पमर्हति, ज्ञानोपयोगो दर्शनोपयोगो वा। तमेवाधुना सङ्ख्यानियममाविष्करोति-ज्ञानोपयोगोऽष्टभेद इत्यादिना भाष्येणोद्देशनिर्देशरूपेण । मतिज्ञानोपयोग इति । मतिज्ञानाकारपरिणामस्तदात्मकत्व
१ अपर्याप्ता भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिनः ? त्रीणि गौतम ! ज्ञानानि त्रीणि अज्ञानानि भजनया। २ मत्यज्ञानी भदन्त ! मत्यज्ञानभावेन किं प्रथमोऽप्रथमः ? गौतम । न प्रथमः, अप्रथमः, एवं श्रुताज्ञान्यपि । ३ यस्य द्रव्यात्मा तस्य उपयोगात्मा नियमादस्ति, यस्योपयोगात्मा तस्य ज्ञानात्मा वा दर्शनात्मा वा नियमादस्ति ।
४ जीयो भदन्त ! गर्भात् गर्भ व्युत्क्रामन् कि सेन्द्रियो व्युत्क्रामति अनिन्द्रियो व्युत्कामति ?, गौतम ! स्यात् सैन्द्रियः स्यादनिन्द्रियः, तत् केनार्थेन भदन्तैवमुच्यते !, गौतम ! द्रव्येन्द्रियाणि प्रतीत्य अनिन्द्रियो व्युत्क्रामति, लब्धीन्द्रियाणि प्रतीत्य सेन्द्रियो व्युत्क्रामति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org