________________
तच्छब्दस्य
१५२ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः २ ज्ञानोपयोगः, मनःपर्यायज्ञानोपयोगः, केवलज्ञानोपयोग इति, मत्यज्ञानोपयोगः, श्रुताज्ञानोपयोगः, विभङ्गज्ञानोपयोग इति । दर्शनोपयोगश्चतुर्भेदः, तद्यथा-चक्षुदर्शनोपयोगः, अचक्षुर्दर्शनोपयोगः, अवधिदर्शनोपयोगः, केवलदर्शनोपयोग इति ॥९॥ टी०–स द्विविधोऽष्टचतुर्भेदः, तच्छब्देन भाष्यकारोऽनन्तरमुपयोगं सम्ब
न्धयति, स उपयोगः सकलजीवराशेश्चिह्नभूतो द्विविधो-द्विप्रकारो सार्थकता
भवति । अपरे पुनस्तच्छब्दं नाधीयतेऽनन्तरत्वात् किल स एव
सम्भन्त्स्यते नार्थस्तत्पाठेन, तदेतदयुक्तम् , अन्यत्रापि हि तच्छब्दोपन्यासेऽनन्तर एव संम्बध्येत ततश्च न कचित् तच्छब्दः प्रयोक्तव्यः स्यात्, तथा च 'कायवाङ्मनःकर्म योगः', 'स आस्रवः' (अ० ६, मू० १-२) इति, 'सकषायत्वाजीवः कर्मणो योग्यान् पुद्गलानादत्ते', 'स बन्धः' (अ० ८, मू० २-३) इति । पुनस्त एवाहुः-नहि योगः भेद्यत्वेन विवक्षितः किन्वास्रवता विधीयते योगानां तत्र, अयं पुनरुपयोगो विभित्सितस्तत्र किमन्यः स्याद् यो द्विविधत्वादिना भिद्येत ? तथेतरत्रापि पुद्गलादानस्यात्मसात्कृतस्य बन्धविधानम्, अतो न समानम् । उच्यते-कः खल्वयं नियमो यत्र भेदविधिस्तत्र तच्छब्दो न प्रयुज्यते इति ? रुचिमात्रमेवमङ्गीकृतं स्यात् , अविगानेन च भाष्यमेवं पठ्यते-स उपयोगो द्विविधस्तदेतदगमितं स्यात् , तस्मादस्तु तच्छब्दः । द्विविध एवोपयोगो भवतीत्यवधार्यते मूलभेदतः, तच द्वैविध्यं आचार्यः स्पष्टयतिसाकारोऽनाकारश्चेति । आकारो-विकल्पः सह आकारेण साकारः, अनाकारस्तद्विपरीतः, निर्विकल्प इत्यर्थः । एतद् व्याख्यानमन्येऽपवदन्ते-साकारानाकारयोर्यत्केवलदर्शने
शक्त्यभावः प्रसज्यते मनःपयोये च दशेनप्रसङ्गः, तयोर्हि घटादिसामान्यग्रहणेऽपि ज्ञानमेव तन्न दर्शनमिति, तस्मादाकारो लिङ्गम्,
स्निग्धमधुरादिशखशब्दादिषु यत्र लिङ्गेन ग्राह्यार्थान्तरभूतेन ग्राहँकदेशेन वा साधकेनोपयोगः स साकारः, यः पुनर्विना लिङ्गेन साक्षात् सोऽनाकारः, एवं सति पूर्वक दोषद्वयं परिहतं भवति, तदेतदयुक्तम् , यत् तावदुच्यते-केवलदर्शने शक्त्यभावः प्रसजतीति का पुनरसौ शक्तिः ? यदि तावद् विशेषविषयः परिच्छेदः शक्तिशब्दवाच्यस्तस्याभावश्चोद्यते ततोऽभिलषितमेव सगृहीतं स्यात् । अथ सामान्यार्थग्रहणशक्त्यभावश्चोद्यते ततस्तस्य दर्शनार्थतैवानुपपन्ना स्यात्, किं हि तेन दृश्यते ? यदप्युक्तं मनःपर्याये दर्शनप्रसङ्ग इति तदागमानवबोधादयुक्तम् । न ह्यागमे मनःपर्यायदर्शनमस्ति, चतुर्विधदर्शनश्रवणात् , आगमप्रसिद्धं चेहोपनिबध्यते, न स्वमनीषिका प्रत
साकारानाकार
शब्दार्थः
-
१ 'सम्बध्यते' इति क-ख-पाठः।
२ 'मन्ये एवं वदन्त' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org