________________
सूत्रं ८]
स्वोपज्ञभाष्य-टीकालङ्कृतम् सम्भवमायोजनीयाः, क्रियावत्त्वं पर्यायोपयोगिता प्रदेशाष्टकनिश्चलता एवम्प्रकाराः सन्ति भू
__ यांसः । अपिः समुच्चये । एवम्प्रकाराश्च अनादिपारिणामिका भवन्ति कथावत्यादयः जीवस्य भावाः, धर्मादिभिस्तु समाना इत्यादिग्रहणेन सूचिताः। एवमादयोऽपीत्यादि भाष्यम् । एवम्प्रकारा-एवमादयः क्रियावत्त्वप्रकाराः, धर्मादिभिरिति कचिद् , पुद्गलद्रव्यं यथासम्भवमुपदर्शितमेव, तथा केचिदात्मन एव वैशेषिका आदिशब्देनाक्षिप्यन्ते पर्यायोपयोगितादयः। तुशब्दो विशेषकः । धर्मादिविशिष्टास्तत्समाश्च । इतिः परिसमाप्तौ। अयमादिग्रहणार्थस्यादिग्रहणेन सूचिताः इति गमयति विधृतमर्थमनेन ग्रन्थेन । ये जीवस्यैवेत्यादि ग्रन्थ आत्मन एवासाधारणा ये धर्मा जीवभव्याभव्यत्वलक्षणास्त इह मूत्रे स्वशब्देन यो यस्य वाचकः शब्दो जीवादिस्तेनैवोक्ता इति । एतेनादिशब्दस्य त्रितयपर्यन्तवर्तित्वं व्याख्यातम , अन्यथा जीवत्वादीनि चेति सूत्रं स्यात । सूत्रपर्यन्तवर्ती चशब्दः समुच्चये । सम्यक्त्वचारित्रादयो जीवस्य स्वतत्त्वं जीवत्वादयश्च स्वतत्त्वमिति । इत्येते पञ्च भावा इत्यादि भाष्यम् । इतिशब्दः सकलभावोपसंहारार्थः, एत इति प्रतिपदं ये उद्दिष्टा औपशमिकादयः पश्चैवाऽन्यूनाधिका भावाः पयोयान्तराण्यात्मनः त्रिपश्चाशद्भेदा येषां ते त्रिपञ्चाशद्भेदा भवन्ति आत्मनः स्वतत्त्वं, द्विनवाष्टादिसूत्रे (अ० २, सू०२) च सङ्ख्या प्राक् नियता सैवानेनोपसंहृतेति । एते च भावविकल्पा जीवानां यथासम्भवमायोज्याः, न सर्वे सर्वेषामिति, क्षायिकपारिणामिकावेव सिद्धानाम, औपशमिकवर्जा नारकतिर्यग्योनीनाम्, देवमनुष्याणां पश्चापि, न त्वौपशमिकक्षायिके सम्यक्त्वचारित्रे वा युगपद् भवत इति, एवमयमात्मा परिणामैरेभिरौपशमिकादिभिर्युक्तः परिणामी द्रव्यमिति निश्वेतव्यः, नहि श्रद्धानादिलक्षणाः परिणामाः केनचिद् घटादिषूपलब्धपूर्वाः, तस्मादेषां भावानामवश्यं केनचिदन्वायना पदार्थेन भवितव्यम् , स चात्मेति ॥ ७॥
अधुना द्वितीयप्रश्नमतिबहुग्रन्थप्रतानव्यवच्छिन्नमनुसन्दधान आह-किश्चान्यदिति । भावपञ्चकमव्यापित्वान्न परितोषमाधातुमलमस्य श्रोतुः पश्यन्नाचार्यः सकलजीवपदार्थव्यापीदमव्यभिचारि त्रिकालविषयं लक्षणमात्मनो निर्दिदिक्षुः सम्बन्धयति भावपञ्चकाद् अन्यच्च-किं लक्षणमस्याव्यभिचारीति यदनाक्षीत् तदिदमुच्यते
सूत्रम्-उपयोगो लक्षणम् ॥ २-८॥ भा०-उपयोगो लक्षणं जीवस्य भवति ॥ टी०-उपयोगो लक्षणं भवति जीवस्येत्येतावद् भाष्यमस्य सूत्रस्य। उपयोगः
___ उपलम्भः, ज्ञानदर्शनसमाधिः ज्ञानदर्शनयोः सम्यक्-स्वविषयसीमानुउपयोगस्य लक्षणता
ल्लङ्घनेन धारणं समाधिरुच्यते, अथवा युञ्जनं योगः-ज्ञानदर्शनयोः
प्रवर्तन विषयावधानाभिमुखता, सामीप्यवर्ती योग उपयोगो नित्यसम्बन्ध इत्यर्थः । लक्ष्यतेऽनेनेति लक्षणम्, उपयोगेन लक्ष्यत इति । जीवस्येति कर्मलक्षणा इह
१ सदृशाच ' इति स्व-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org