________________
Billiti
१५० स्वार्थाधिगमसूत्र
[ अध्यायः २ षष्ठी द्रष्टव्या । उपयोगेनोपलभ्यते इतियावत् । समुदायार्थस्त्वयम्-सामान्यविशेषावबोधदर्शनान्निश्चीयतेऽस्त्यत्रात्मा यस्यामू सामान्यविशेषावबोधौ, न चास्ति कश्चित् कचिज्जीवो यस्य न स्तः साकारानाकारोपयोगावित्यतोऽनपायीदं लक्षणमस्य जन्तोः, आगमश्चायम्-"सव्वजीवाणंपि य णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" ( नन्दी० सू० ४२) । सर्वजीवानामपीति अशेषसर्वकग्रहणेन संसारिणां परिग्रहः पृथिवीकायादीनाम, अपिः सम्भावनायां, णमिति वाक्यालङ्कारार्थः, अक्षरमिति-सामान्यविशेषरूपोऽवबोधस्तस्यानन्तभागोऽवबोधस्य नित्यमेव-सर्वदा उद्घाट:-प्रकाशो निरावरणः, यस्मात् सकलत्रैलोक्यान्तवर्तिनोऽपि हि पुद्गलाः कर्मतया परिणताः सन्तोऽपि न समावरीतुमलमेकस्यात्मनः सर्वात्मनाऽवबोधम् , यथा च नितान्तधनपटलपिहितेऽपि सवितुर्मण्डले ज्योतिर्लेशः कियानपि चकास्त्येव, न सर्वथैव प्रणश्यति तथाऽऽत्मनोऽप्यवबोधलेशः स्फुरत्येव कियानपि सर्वदा, यदि चावृणुयुस्ते पुद्गलाः सर्वात्मना ततो निर्जीवतैव स्यादात्मनः, तस्माद् या च यावती च मात्राऽऽ
__वरतः प्रबोधस्य सर्वजीववर्तिनी स्वभावादेव निरावरणा समस्ति उपयोगस्य व सा च सर्वजघन्योपयोगमात्रा प्रथमसमये सूक्ष्मनिगोदापर्याप्तानामेव
भवति, ततः परंतु सैवोपयोगमात्रा शेपैकेन्द्रियद्वित्रिचतुःपञ्चेन्द्रियभेदेन भिद्यमाना सम्भिन्नश्रोत्रत्वादिलब्धिकलापेन च लब्धिनिमित्तकरणशरीरेन्द्रियवामनःसापेक्षा प्रवर्धमाना नानारूपक्षयोपशमापादितवैचित्र्याऽवग्रहादिभेदात् सर्वक्षयमवाप्य सकलज्ञेयग्राहिणी परां विशुद्धिकाष्ठां समासादयति केवलज्ञानसंज्ञिताम् , अत एव जीवस्वभावचैतन्यविशेषाणां सर्वेषां प्रमाणाख्यानामुपयोगरूपाणां स्वसंवेद्यत्वमवश्यमभ्युपगन्तव्यम् , उत्तरकालं तदनुस्मारणोपपत्तेः, अनुस्मरणं हीदं स्वयमनुभूतस्यार्थस्य दृष्टं नान्यथा, तस्माज्ज्ञात्वा योऽनुस्मरत्युत्तरकालं स एक आत्माऽन्वयी प्रतिपत्तव्यः । न खलु ज्ञानस्मृती भिन्नपदार्थाधारे कचिद् दृष्टे, तस्मादस्त्येक आत्मेति, तथा परत्र हिताहितप्राप्तिपरिहारविषयां क्रियां दृष्ट्वा बुद्धिपूर्वकत्वानुमानं स्वदेह इव, ताश्च बुद्धयः प्रमाणं जीव इत्येकोऽर्थ इति । यथाऽऽह-"आया भंते ! नाणे अण्णाणे ? गोयमा! आया सिय नाणे सिय अण्णाणे, णाणे पुण नियमा आया" ( भगवत्यां )। बुद्धिरूपस्य चात्मनोऽनुमानगम्यत्वमवसेयम्, स्वदेहे च क्रिया बुद्धिपूर्वा स्वानुभवसिद्धा, तत्क्रियाजनिते च सुखदुःखे, रूपाद्यर्थज्ञानानि चानुभवसिद्धत्वात् प्रत्यक्षप्रमाणविषयत्वं बुद्धीनाम्, स एव चात्मेति, स्वदेहव्यापी स्वात्मा, परदेहव्यापी पर इति । तथा शरीरकारणयोः शुक्रौजसोर्धात्विन्द्रियाङ्गोपाङ्गादिपरिणामगतेरभिसन्धिमानाहर्तानुमीयते, तथाऽऽहारपरिणामित्वात् तच्छवशरीरं केनाप्यभिसन्धिमता कापि गच्छतोत्सृष्टं, स चोत्स्रष्टाऽऽत्मेति निश्चीयते, एवमयमुपयोग
१ सर्वजीवानामपि अक्षरस्यानन्तभागो नित्यमुद्घाटितकः । २'वा' इति ख-पाठः। ३ आत्मा भदन्त । ज्ञानं अज्ञानं ? गौतम | स्यात् ज्ञानं स्यात् अज्ञानं, ज्ञानं पुनर्नियमादात्मा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org