________________
१४८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ जीव एव जीवत्वमसख्येयप्रदेशाः चेतनेति, भव्या सिद्धिर्यस्यासौ भव्यः, उत्तरपदलोपाद् भीमादिवत्, भव्य एव भव्यत्वम् , अभव्यः सिद्धिगमनायोग्यः कदाचिदपि यो न सेत्स्यति अभव्य एवाभव्यत्वम् ॥ ननु वन्ध्यापुत्रोऽप्येवमभव्यः स्यात्, नैतत् , कुतः १ तुल्याधिकरणेऽन्यस्मिन् नअयोगादब्राह्मणवत्। एतेनाकाशाभव्यत्वं प्रत्यस्तम् , इतिशब्दो व्यवच्छिनत्ति, भावत्रयमप्यसाधारण्येन जीवस्य । एते त्रयः पारिणामिका भावा भवन्तीत्यनेन भाष्येणैतत् प्रतिपादयति-न कर्मकृताः, स्वाभाविका एते जीवस्य त्रयोऽपि भवन्ति । आदिग्रहणं किमर्थमिति प्रश्नयतः कोऽभिप्रायः ? एवं मन्यते-द्विनवाष्टादिसूत्रेण (अ०२, सू०२) त्रिपञ्चाशद् भावभेदा नियताः, तद्यदि सन्त्यन्येऽपि ततश्चानियतः सङ्ख्याभेदः, तथा चानर्थकं सूत्रम्, अथ तावन्मात्रा एव न सन्त्यन्ये ततोऽनर्थकमादिग्रहणमतः पृच्छति, अत्रोत्तरमुच्यते-द्विनवाष्टादिसूत्रेण जीववर्तिन एव त्रिपञ्चाशद् भेदाः सङ्ग्रहीता इति सङ्ख्यानियमो न भिद्यते, न चानर्थक्यं सूत्रस्य, जीववार्तनोज्जीववर्तिनश्व (ये) साधारणाः पारिणामिकास्ते तत्र नोपात्ताः, तदुपादानायेदमादिग्रहणम् । अतस्तान् दर्शयतिअस्तित्वादिना भाष्येण ॥ अस्तित्वं भावानां मौलो धर्मः सत्तारूपत्वम्, तच्चात्मनो ज्ञानाअस्तित्वादयः दिसद्भावात् प्रसिद्धमपह्नोतुमशक्यमादावुपन्यस्तम्, इदं च परमाण्वादी
साधारणाः नामपि सामान्यम् । अन्यत्वमिति शरीरादात्मनः, तद्विलक्षणत्वात् परलोकसद्भावाचावश्यमन्यत्वमभ्युपेयम्, तथाऽण्वादीनामपि परस्परेणास्ति । कर्तृत्वमिति शुभाशुभकर्मणो निर्वर्तकत्वं योगप्रयोगसामर्थ्यात्, कर्तृत्वादेव च भोक्तृत्वं स्वप्रदेशव्यवस्थितशुभाशुभकर्मकर्तृत्वात् , कर्तृत्वं सूर्यकान्तेऽपि सविकिरणगोमयसङ्गमादुपलभ्यतेऽग्निनिवृत्तौ अतः सामान्यम्, भोक्तृत्वं मदिरादिष्वत्यन्तप्रसिद्धं भुक्तोऽनया गुड इति । क्रोधादिमत्त्वात् गुणवत्त्वं ज्ञानाद्यात्मकत्वाद् वा, परमाण्वादावपि गुणवत्त्वमेकवर्णादित्वात् समानम् । त्वक्पर्यन्तशरीरमात्रव्यापित्वात् असर्वगतत्वं संसार्यात्मनः, मुक्तस्यापि समन्ततः परिमितत्वात् स्वदेहप्रमाणत्रिभागहीनावगाहात्मकत्वादसर्वव्यापिता, परमाण्वादिभिस्तुल्या । अनादिकर्मसन्तानबद्धत्वमिति अविद्यमानादिकर्मसन्तत्या वेष्टितः संसारी संसृतौ पर्यटतीति, न मुक्त इति यथासम्भवमेतद् योज्यम् । कार्मणशरीरमप्यनादिकर्मसन्तानबद्धमिति सामान्यः चेतनाचेतनयोधर्मः। प्रदेशवत्त्वं तु लोकाकाशप्रदेशपरिमाणप्रदेश एक आत्मा भवति, धर्मादिद्रव्यसामान्यमेतत् । अरूपत्वमिति रूपरसगन्धस्पर्शविरहितत्वादात्मनः, तच्चाकाशादिभिस्तुल्यम्, नित्यत्वमिति 'तद्भावाव्ययं नित्यम् ' (अ०५, सू०३०) इति वक्ष्यते, नित्यश्च ततो ज्ञानादिसद्भावादयमात्मा, तुल्यं चैतदाकाशादिभिः । एवमेते दश धर्माः साधारणा भाष्यकृतोपदर्शिता आदिशब्दाक्षिप्ताः । पुनरप्यादिग्रहणं कुर्वन् ज्ञापयत्यत्रानन्तधर्मकमेकम् , तत्राशक्याः प्रस्तारयितुं सर्वे धर्माः प्रतिपदं, प्रवचनज्ञेन पुंसा यथा
१'प्रश्नयति' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org