________________
सूत्र ७ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् सर्वत्र सम्बन्धनार्थम्-एकविधमिति, व्याख्याधर्मश्चायं पर्यायान्तरकथनमिति । लेश्याः षड्भेदाः । लिश्यन्त इति लेश्याः, मनोयोगावष्टम्भजनितपरिणामः, आत्मना सह लिश्यते
एकीभवतीत्यर्थः। अनेकत्वेऽपि परिणामस्य परिस्थूरकतिपयभेदक-. लेश्यास्वरूपम्
स्वरूपम् थनमेव सुज्ञानत्वात् क्रियते, न त्वशेषपरिणामभेदाख्यानमशक्यत्वात् , इत्याह-षड्भेदा इति । सम्प्रति तारतम्यविशुद्धिक्रममाविर्भावयन् पठति-कृष्णलेश्येत्यादि । कृष्णा चासौ लेश्या कृष्णलेश्या, सर्वत्रैवमायोज्यम् । लेश्येति परिणाम उक्तः स कथं कृष्णादिवर्णसम्बन्धी स्यादात्मनः । उच्यते-द्विविधा लेश्या द्रव्यभावभेदतः । तत्र द्रव्यलेश्याः कृष्णादिवर्णमात्रम्, भावलेश्यास्तु कृष्णादिवर्णद्रव्यावष्टम्भजनिता परिणामकर्मबन्धनस्थितेर्विधातारः, श्लेषद्रव्यवद् वर्णकस्य चित्राद्यार्पतस्येति, तत्राविशुद्धोत्पन्नमेव कृष्णवर्णस्तत्सम्बद्धद्रव्यावष्टम्भादविशुद्धपरिणाम उपजायमानः कृष्णलेश्येति व्यपदिश्यते । आगमश्चायं-"जल्लेस्साइं दव्वाइं आदिअंति तल्लेस्से परिणामे भवति" (प्रज्ञा०लेश्यापदे)। तथा नीलवर्णद्रव्यावष्टम्भान्नीललेश्या, नीललोहितवर्णद्वययोगिद्रव्यावष्टम्भात् कापोतलेश्या, लोहितवर्णद्रव्यावष्टम्भात् तेजोलल्या, पीतवर्णद्रव्यावष्टम्भात् पीतलेश्या, शुक्लवर्णद्रव्यावष्टम्भात् शुक्ललेश्या, वर्णाशुद्धयपेक्ष्या भावाशुद्धिः तच्छुद्धयपेक्ष्या भावशुद्धिरिति । तेजोलेश्यायाः शुभपरिणामापेक्षा इष्टा इष्टतरा इष्टतमा चेति । कापोतलेश्यायाः प्रातिलोम्येनानिष्टपरिणामापेक्षा अनिष्टा अनिष्टतरा अनिष्टतमा चेति । आसां च षण्णामपि लेश्यानां जम्बूवृक्षफलभक्ष[क] दृष्टान्तेनागमप्रसिद्धेन ग्रामदाहकपुरुषषट्केन च प्रसिद्धिरापाद्या, एवं सर्वान् भेदानाख्यायोपसंहरति--एत इत्यादि । एकविंशतिरेवान्यूनाधिका भावाः कर्मोदयापेक्षाः प्रादुर्भवन्तीति ॥६॥ पारिणामिकस्त्रिभेद उद्दिष्टः, स उच्यते
सूत्रम्--जीवभव्याभव्यत्वादीनि च ॥ २-७॥ भा०-जीवत्वं, भव्यत्वं, अभव्यत्वामित्येते त्रयः पारिणामिका भावा
र भवन्ति । आदिग्रहणं किमर्थमित्यत्रोच्यते-अस्तित्वं, अन्यत्वं, णामिका कर्तृत्वं, भोक्तृत्वं, गुणवत्त्वं, असर्वगतत्वं, अनादिकर्मसन्तानबद्धत्वं, प्रदेशवत्त्वं अरूपत्वं, नित्यत्वमित्येवमादयोऽप्यनादिपारिणामिका जीवस्य भावा भवन्ति, धर्मादिभिस्तु समाना इत्यादिग्रहणेन सूचिताः । ये जीवस्यैव वैशेषिकास्ते स्वशब्देनोक्ता इति । एते पञ्च भावास्त्रिपञ्चाशद्भेदा जीवस्य स्वतत्त्वं भवन्ति, अस्तित्वादयश्च ॥ ७॥ किश्चान्यत् ।
टी०-जीवभव्याभव्यत्वादीनि च । अत्र भावे त्वप्रत्ययः प्रत्येकमभिसम्बध्यत इति प्रदर्शयन्नाह-जीवत्वमित्यादि । जीवभावो जीवत्वं स्वार्थिको भावप्रत्ययः ।
१ 'विशेषकास्ते ' इति ग-पाठः । २ यल्लेश्यानि द्रव्याण्याददते तल्लेश्यः परिणामो भवति ।
भेदा: पारि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org