________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ दर्शनमोहनीयोदयादज्ञानं भवति, गतिग्रहणाच्छेषनामभेदाः गोत्रवेदनीयायूंषि चाक्षिप्तानि, यस्मादू गतिरायुष्कजात्यादिनामगोत्रवेदनीयानामन्यतमाभावेऽपि न सम्भाव्यते, भवधारणकारणत्वात् एषां कर्मणामिति, तथा लिङ्गग्रहणाद् हास्यादिषट्रकग्रहणम्, हास्यादिषट्रकस्य लिङ्गोपग्रहकारकत्वात् , कषायग्रहणाद् वा हास्यादिपरिग्रहः, यस्मादेते नव नोकषायाः • कषायसहवर्तित्वादुच्यन्त इति ॥ ननु च कर्मप्रकृतिभेदानां द्वाविंशत्युत्तरशतं प्रकृतिगणनया प्रसिद्धमाम्नाये, न च तत्र लेश्याः परिपठितास्तत् कथम् ? । उच्यते वक्ष्यते नामकर्मणि मनःपर्याप्तिर्नाम, पर्याप्तिश्च करणविशेषो येन मनोयोग्यान् पुद्गलानादाय चिन्तयति, ते च मन्यमानाः पुद्गलाः सह करणेन मनोयोग उच्यते, मनोयोगपरिणामश्च लेश्याः, ताश्च नोपात्ताः सूत्रभाष्ययोरिहोत्तरोत्तरभेदत्वादिति । अपरे मन्यन्ते-कर्माष्टकोदयादसिद्धत्व एव लेश्या ग्राह्याः, तदेतत् सर्वं सूत्रकारेण लाघवमिच्छता लेशत उपात्तं न साक्षात् ॥
अधुना भाष्यमनुस्रियते-गतिश्चतुर्भेदा नारकादिचतुर्विधपर्यायोत्पादनव्यपदेशकारणसमर्थं यत् कर्म तद् गतिशब्देनोच्यते, तस्य कर्मण उदयादयं निवर्तते भावो नारकादिः नरकगतिनामकोदयान्नारक इत्येवं सर्वत्र, आत्मगतिनामकर्मणोश्चाभेदमभिसन्धायाचार्येण प्रेक्षापूर्वकारिणा नारक इति निरदेशि, न तु नरकगतिमात्रमौदयिकस्य जीवस्वतत्त्वप्रतिपादनार्थम्, इतिशब्दः सर्वभेदान्तेष्वियत्ताप्रदर्शनार्थः। कपः-संसारस्तस्यायमुपादानकारणविशेषः कषायः । स चतुधों क्रोधादिस्तदुदयात् क्रोध्यादिव्यपदेशः । अत्रापि जीवस्वतत्त्वप्रतिपत्तये क्रोधीति व्यपादेशि न क्रोध इति । लिङ्ग त्रिभेदं-स्त्रीत्वादि, तच्च लीनत्वाल्लिङ्गमुच्यते, यस्मात् पुरुषलिङ्गनिर्वृत्तावतिप्रकटायामपि कदाचित् स्त्रीलिङ्गमुदेति न च स्पष्टं बहिरुपलभ्यते नपुंसकलिङ्गं वा, तथा स्त्रियाः स्वलिङ्गनिवृत्तावतिस्पष्टायामेव जातुचित् पुनपुंसकलिङ्गोदयः, नपुंसकस्याप्येवं स्वलिङ्गनिर्वृत्तावुत्तरकालभाविनी कदाचित् पुंस्त्रीलिङ्गे भवतो न च निवृत्तितो लक्ष्यते, कपिलवदिति सर्वत्र योज्यम् । एतदेव त्रिविधं लिङ्गं वेद उच्यते, यस्य कर्मण उदयात पास्नं स्त्रैणं नपुंसकत्वं च भवति तल्लिङ्गम् , अत्राप्यभेदेन निर्देशः पुमान्, स्त्री, नपुंसकामिति । मिथ्यादर्शनमेकभेदं तत्त्वार्थाश्रद्धानलक्षणम् , यस्य कर्मणः उदयान किञ्चित् तत्त्वं श्रद्धत्ते तन्मिथ्यादर्शनम् ॥ ननु च अभिगृहीतानभिगृहीतसन्देहतनिधोक्तम्, उच्यते-सवेत्राश्रद्धानलक्षणं न भिद्यत इत्येकभेदमुक्तम्, अत्राप्यभेदोपचारात् मिथ्यादृष्टिरिति । अज्ञानमेकभेदं ज्ञानदर्शनावरणसर्वघातिदर्शनमोहनीयोदयादज्ञानमनवबोधस्वभावमेकरूपम्, तथैवाभेदमाधाय मनसि व्यपादिशद अज्ञानीति । असंयतत्वमेकभेदं सज्वलनवर्जकषायद्वादशकोदयादसंयतत्वमेकरूपम् , अत्राप्यभेदेन निर्देशः पर्यायतश्च असंयतः अविरत इति । असिद्धत्वमेकभेदं वेदनीयायुर्नामगोत्रोदयादसिद्धत्वमेकरूपम्, तथैवाभेदादसिद्ध इति प्रदर्शितम् । एकभेदमित्यस्य पर्यायान्तरं कथयति पर्यन्ते
१'त्रियते' इति ख-पाठः। २ उक्कमेतत् ११३ तमे पृष्ठे । '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org