________________
सूत्र ४]
स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-ज्ञानदर्शनेत्यादि सूत्रम् । कृतद्वन्द्वानां निर्देशः, चशब्दोऽनन्तरद्वयानुकर्षणार्थः सूत्रोक्ताः सप्त च द्वौ चशब्दानुक्रष्टावित्येवं नव भेदाः ॥ ननु च सिद्धत्वमपि क्षायिको भावः, स चेह न निर्दिष्टः सूरिणा, कोऽभिप्राय इति ? । उच्यते-कोष्टकैकदेशक्षयादेते क्षायिकाः सूत्रेण प्रतिबद्धाः, सिद्धत्वं तु सकलकर्मक्षयजं भवप्रपञ्चपरिवर्ति परां विशुद्धिकाष्ठामितं परमक्षायिकं कालस्वभावभेदात् मुक्तकाल एव सर्वकर्माभावस्वभाव इत्यतो न प्रतिबद्धम्, ज्ञानादयस्तु संसृतौ मुक्तौ च केचित् सम्भवन्तीति विशेषप्रतिपादनार्थमग्रहणं सिद्धत्वस्येति । कथं पुनरयमाचार्याभिप्रायो गम्यते ? । उच्यते-वक्ष्यति हि दशमे 'औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः' (अ०१०,मू०४) इति, तन्न खलु विस्मृत इहाचार्यस्यायं सिद्धत्वलक्षणो भावः, किन्तु मोक्षकाष्ठा परासाविति तत्रैवोपादास्यामहे-मोक्षाधिकार एव पठिष्यामः इत्यमुनाभिप्रायेण नेहाधीतः, ये पुनः काष्टकैकदेशक्षयात् जातास्त इहावध्रियन्ते नवेत्यदोषः।।
भाष्याक्षराण्यधुनाऽनुगम्यन्ते-ज्ञानमिति केवलं सकलज्ञेयग्राहि समस्तज्ञानावरणक्षयप्रभवं परिगृह्यते, न शेषमसम्भवात् , दर्शनमपि केवलाख्यमशेषदर्शनावरणीयक्षयसमुद्भूतमुपात्तम्, न शेषं चक्षुराद्यसम्भवात्, दानमिति वक्ष्यते लक्षणतः ' स्वस्यातिसर्गो दानं' (अ० ७, सू० ३३) तच्च सकलदानान्तरायक्षयादेकस्मादपि तृणाग्रात् त्रिभुवन विस्मयकर यथेप्सितमार्थनो न जातुचित् प्रतिहन्यते प्रयच्छत इति, लाभ इति परस्माञ्चतुर्वर्गस्यान्यतमसमस्तसाधनप्राप्तिः, स चाशेषलाभान्तरायकर्मक्षयादचिन्त्यमाहात्म्यविभूतिराविर्भवति । येन यत् प्रार्थयते तत् समस्तमेव लभते, न तु प्रतिषिध्यते । शुभविषयसुखानुभवो भोगः, अथवा भक्ष्यपेयलेह्यादिसकृदुपयोगाद् भोगः, स च कृत्स्नभोगान्तरायक्षयाद् यथेष्टमुपपद्यते, न तु सप्रतिबन्धः कदाचिद भवति, न वा न भवत्यभिलषित इति । विषयसम्पदि सत्यां तथोत्तरगुणप्रकर्षात् तदनुभवः उपभोगः, पुनः पुनरुपभोगाद् वा वस्त्रपात्रादिरुपभोगः, स च निरवशेष उपभोगान्तरायकर्मणि क्षीणे यथेष्टमुपतिष्ठते । अप्रतिषः शक्तिविशेष आत्मनो वीर्यम् , तच्चाप्रतिहतमपास्ताशेषवीर्यान्तरायकर्मणो भवति, तेन च यदिच्छति तत् सर्वमायत्तीकरोति । सम्यक्त्वं पुनरनन्तानुबन्धिकषायमिथ्यात्वमिश्रसम्यक्त्वदर्शनसप्तकक्षयादात्यन्तिकादप्रतिहतं जीवादिपदार्थश्रद्धानलक्षणमसंहार्यमुपजायते । चारित्रं तु सकलमोहक्षयात् क्षायिकमाविर्भवति। वीर्यमित्यत्रायमितिशब्दोऽर्थपदार्थकः, एतानीति सूत्रोक्तानि, चशब्दः समुच्चये, सम्यत्वचारिते च, नव क्षायिका भावा भवन्तीति ॥४॥
उद्दिष्टः क्षायोपशमिकोऽष्टादशधा, स इदानीमाविर्भाव्यते
१ 'पारावर्ती इति ग-टी-पाठः । २'पादनार्थग्रहणं सिद्धस्येति' इति क-ख-पाठः। ३ 'भव्यत्वा. भव्यत्वान्यत्र' इति क-ख-पाठः। ४ 'त्यभिलाष इति' ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org