________________
१४४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ सूत्रम्-ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः यथाक्रम
सम्यक्त्वचारित्रसंयमासंयमाश्च ॥ २-५॥ भा०–ज्ञानं चतुर्भेद-मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानं, मनःपर्याक्षायोपशमिकस्या
यज्ञानमिति । अज्ञानं त्रिभेद्-मत्यज्ञानं, श्रुताज्ञानं, विभङ्गज्ञानदाः मिति । दर्शनं त्रिभेद-चक्षुदर्शनं, अचक्षुर्दर्शनं, अवधिदर्शन
मिति। लब्धयः पञ्चविधाः-दानलाब्धः, लाभलब्धिः, भोगलब्धिः, उपभोगलब्धिः,वीर्यलब्धिरिति । सम्यक्त्वं चारित्रं संयमासंयम इत्येतेऽष्टादश क्षायोपशमिका भावा भवन्तीति ॥ ५॥
टी-ज्ञानाज्ञानेत्यादि सूत्रम्, ज्ञानादीनां लब्धिपर्यन्तानां द्वन्द्वः, चतुरादीनामपि पञ्चानां द्वन्द्वः, पश्चाद् बहुव्रीहिः, चतुःत्रित्रिपञ्च भेदा यासां ताश्चतुस्त्रित्रिपञ्चभेदाः । अत्र च यथासङ्ख्यमभिसम्बन्धो ज्ञानादीनाम् , सम्यक्त्वादीनामपि कृतद्वन्द्वानां बहुवचनेन निर्देशः, अशक्यप्रतिवन्धमन्यथा मूत्रमतो विच्छेदमकरोत् सूत्रकारः ॥ ननु च सम्यक्त्वचारित्रयोरधिकारादेवानुवृत्तिर्भविष्यतीह सूत्रे, नार्थः शृङ्गग्रहणेनेति । उच्यते-' चानुकृष्टमुत्तरत्र नानुवर्तत' इत्यभिप्रायः । चशब्दः समुच्चिती, ज्ञानादयो लब्ध्यन्ताः सम्यक्त्वादयश्च । क्षायोपशमिकोऽष्टादशधा ॥
____ अधुना भाष्यार्थः-ज्ञानं चतुर्भेदमित्युद्देशभाष्यम्, मतिज्ञानमित्यादिनिर्देशः, एतानि च लक्षणविधानतः प्रथमे व्याख्यातानि, सम्प्रति तु नियममात्रं भावस्यावद्योत्यते । अत्र च मत्यादिचतुष्टयज्ञानावरणीयकर्मणां सर्वोपघातीनि देशोपघातीनि च फडकानि, तत्र सर्वेषु सर्वघातिफडकेषु ध्वस्तेषु देशोपधातिफड्डकानां च समये समये विशुद्धयपेक्ष्यं भागैरनन्तैः क्षयमुपगच्छद्भिर्देशोपघातिभिर्भागश्वोपशान्तः सम्यग्दर्शनसाहचर्याज्ज्ञानी भवति, तच्चास्य क्षयोपशमजं ज्ञानचतुष्टयमुच्यते, इतिशब्दः क्षायोपशमिकज्ञानेयत्ताप्रतिपत्यर्थः। अज्ञानं त्रिभेदमित्युद्देशः, मत्यज्ञानादि निर्देशः, ज्ञानमेव मिथ्यादर्शनसहचरितमज्ञानम्, कुत्सितत्वात् कार्याकरणादशीलवदपुत्रवत् वा, अज्ञानता च प्रपञ्चतः प्रथमे प्रतिपादिता, मिथ्यादृष्टेरवधिर्विभङ्ग उच्यते, भङ्ग:-प्रकारः, कुत्सार्थो विरुपसर्गः, विगार्हतो भङ्ग विभङ्गः, विभङ्गं च तज्ज्ञानं च विभङ्गज्ञानम् , अत्र विभङ्गशब्देन कुत्सा गतेति न ज्ञानशब्दादौ नयोगस्तेन विभङ्गज्ञानम् । तदेतत् त्रिविधमपि ज्ञानावरणक्षयोपशमजमवसेयम् । अज्ञानेयत्तापरिच्छेदार्थमितिशब्दः। दर्शनं त्रिभेदमित्युद्देशः, चक्षुदेशेनमित्यादि निर्देशः, चक्षुषा दर्शनम्-उपलब्धिः सामान्यार्थग्रहणं स्कन्धावारोपयोगवत् तदहर्जातवालदारकनयनोपलब्धिवद् वा व्युत्पन्नस्यापि, अचक्षुदर्शनं-शेषेन्द्रियैःश्रोत्रादिभिः सामान्यार्थग्रहणम् , अवधिहगावरणक्षयोपशमनाद् विशेषग्रहणविमुखोऽवधिदर्शनमित्युच्यते, नियमतस्तु तत् सम्यग्दृष्टि
१' नञ्प्रयोगः ' इति ग-टी-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org