________________
द्वौ भेदौ
इति ॥३॥
१४२ तत्वार्थाधिगमसूत्रम्
[ अध्यायः २ णाद विभक्त्यश्रवणाच्च यादिषु निश्चीयते, पुनः सूत्रपाठे तर्हि किं प्रयोजनम् ? एतापल्लक्ष्यतेपूर्व सूत्रार्थमनूद्य यथाक्रमं मूत्रं सम्बन्धयति-औपशमिको विभेद इत्यादि। विवरण सुगमम् । पारिणामिकस्त्रिभेद् इति, अयमितिशब्द आदिशब्दार्थे, शेषपारिणामिकभेदसङ्ग्रहार्थम् , यथाक्रमामिति, अत्रेतिशब्दः शब्दपदार्थकः; अनेन शब्देनायमर्थः प्रत्याय्यते, येन सूत्रक्रमेणात ऊर्ध्व वक्ष्यामः, येनेति वक्ष्यमाणेन सम्यक्त्वचारित्रे इत्यादिना अस्मात् सूत्रादुपरिष्टात् भणिष्यामः तेन क्रमेण यथाक्रममौपशमिकादयो द्रष्टव्याः । वाक्यान्तरेण प्रकृतार्थनिगमनमादर्शितम्, वाक्यान्तरनिरूपणं च व्याख्यायाः प्रधानाङ्गमिति सङ्ख्यानमात्रश्रवणादुद्देशमूत्रमिदं, न तु भेदनिर्देशः ॥ २॥
सम्प्रति संख्येयान् भावविशेषान् निर्दिशति; औपशमिकस्य तावत् सूत्रक्रमप्रामाण्यात् भेदद्वयं प्रतिपिपादयिषुराह
सूत्रम्-सम्यक्त्वचारित्रे ॥ २-३ ॥
__ भा०–सम्यक्त्वं चारित्रं:च द्वावापशमिको भावौ भवत औपशमिकस्य
३॥
टी-सम्यक्त्वचारित्रे सम्यक्त्वमुक्तं प्रथमेऽध्याये लक्षणविधानाभ्याम् , चारित्रं नवमे वक्ष्यते । एतदुभयमपि सिद्धं गृहीत्वा इहोपशमिकभावो नियम्यते, सम्यक्त्वचारित्रे त्वनियते क्षायिकक्षायोपशमिकयोरपि भवतः, औपशमिकभावस्तु द्वयमिदमपहाय न भेदान्तरमवरुणद्धि, अयं च नियमो द्विनवाष्टादिसूत्रारम्भ सामर्थ्याल्लभ्यते, औपशमिको द्विभेद एवेति गम्यते, सङ्ख्याशब्दोपादानेऽप्येवकारेण तद्यथेत्यादिभाष्ये अनन्तरसूत्रनिर्दिष्टं द्विभेदत्वमौपशमिकस्य तदधुना यथा भवति तथा प्रकाश्यते-सम्यक्त्वचारित्रे चेति, तत्त्वरुचिः सम्यक्त्वम्, सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं चारित्रम्, चशब्दः समुच्चये, एतदुभयमपि इष्टनियमप्रदर्शनार्थम् , द्वाविति सङ्ख्योपादानम् , स च प्रकटीकृत एव प्राक् । औपशमिकावित्यनेन नियम्य पदार्थ दर्शयति-भावाविति । सम्यक्त्वचारित्रयोरात्मपर्यायत्वं दर्शयति-भवत इति । श्रद्धानचरणक्रिययोः क्रियावतः सकाशादनन्यत्वमाह, अतः समुदायार्थोऽयम् सम्यक्त्वचारित्रे द्वे एव औपश मिको भावो भवति, नान्यथेति ॥३॥
अथ क्षायिको नवभेद उद्दिष्टः सोऽधुना निर्दिश्यते-- सूत्रम्-ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥ २-४ ॥
भा०–ज्ञानं,दर्शनं, दान, लाभा, भोगः, उपभोगः, वीर्यमिक्षायिकस्य नव
भेदाः त्येतानि सम्यक्त्वचारित्रे च नव क्षायिका भावा भवन्तीति ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org