________________
१४१
सूत्रं २]
स्वोपज्ञभाष्य-टीकालङ्कृतम् संख्येयप्रदेशोऽपि प्रदीपत्रदाश्रयमात्रावभासी प्रमाणत्वात् अमूर्तेभ्योऽप्याकाशादिभ्यो भिन्नजातीय इति ॥१॥
। एवमेते जीवस्य स्वनिमित्ताः कर्मक्षयावस्थानिमित्ताश्च भावा मूलभेदतो व्याख्याताः । अधुनैषां प्रत्येकं सम्भविनो भेदाः प्रतायन्ते, यथैव निमित्तान्तरादविलक्षणस्यापि जीवस्य भावानां पञ्चत्वं तथा पञ्चानामपि पृथक पृथक् निमित्तापेक्षा भेदा भवन्ति, ते चाभी
सूत्रम्-दिनवाटादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २-२ ॥
भा०-एते औपशमिकादयः पञ्च भावाः दिनवाष्टादशैकविंशतित्रिऔपशामिकादीना भेदा भवन्ति । यथा औपशमिको विभेदः। क्षायिको
भेदसंख्या नवभेदः । क्षायिकोपशमिकोऽष्टादशभेदः । औदयिक एकविंशतिभेदः । पारिणामिकस्त्रिभेद इति । यथाक्रममिति येन सूत्रक्रमेणात ऊर्ध्व वक्ष्यामः ॥२॥
___टी-द्विनवाष्टादशेत्यादि सूत्रम्, द्वौ च नव चेत्यादि द्वन्द्वः, पश्चाद् बहुव्रीहिः, द्विनवाष्टादशैकविंशतित्रयो भेदा येषां ते दिनवाष्टादशैकविंशतित्रिभेदा औपशमिकादयः, प्रागुपन्यस्तसूत्रानुपूर्वीपेक्षं यथाक्रमग्रहणम् । एतच्च व्यतिकरदोषनिवृत्यर्थ मा भूत् पञ्चानामेकस्यैते भेदाः, समस्तानां वा एतावन्त एव, किन्तु एकैकस्य भावस्य वक्ष्यमाणाः सम्यक्त्वचारित्रे इत्यादयो यथा स्युरिति यथाक्रमग्रहणम् । इह केचिद् विद्वांसः संसारस्थानामिति वाक्यशेषमधीयते सिद्धव्यावृत्यर्थ, न किलैते धादिमिन्नास्तेषु सम्भवन्ति भावाः, एकरूपः पारिणामिक एव सम्भवति, तदेतदयुक्तम् , तत्र हि यथासम्भवं ग्रहीष्यन्ते, नावश्यं सर्वैः स्वभेदैः सर्वत्र भवितव्यम् , यथा संसारिणामपि मिथ्यादृष्टीनां न कदाचिदौपशमिकक्षायिकौ भवतः, अभव्यानां वा, तथा सिद्धेष्वपि यथासम्भवग्रहणमिति न किञ्चिद्वाक्यशेषेण । तथैवंरूपः पारिणामिक एव सम्भवति, तदेतदयुक्तम् , यस्मात् क्षायिकसम्यक्त्ववीयसिद्धत्वदर्शनज्ञानः आत्यन्तिकैः स युक्तोऽतिनिर्द्वन्द्वेनापि च सुखेन, ज्ञानादयस्तु भावप्राणाः, मुक्तोऽपि जीवति स तैर्हि, तस्माज्जीवत्वं नित्यं सर्वस्य जीवस्येत्येवमादयः पारिणामिका अपि भावाः सन्ति, न परिणाम एवेत्यवधृतिः ॥
सम्प्रति भाष्याक्षराणि विवियन्ते-एत इति प्रत्यक्षासन्नवाचिना सर्वनाम्नाऽनन्तरसूत्रनिर्दिष्टान् भावानभिमुखीकरोति, औपशमिकादय इति प्रतिविशिष्टं क्रममाचष्टे, भावा इति भवनलक्षणा जन्तोः परिणतिविशेषाः, पश्चेति सङ्ख्ययाऽवधारणं तेषाम्, एतावता भाष्येणानूध पूर्वकमर्थमधुना भेदान् विधत्ते द्विनवेत्यादिना । इदं च सूत्रमेकमेवाचार्येण खण्डीकृत्याधीतम्, न पुनर्विवरणमस्य, कुत एतद् भवतीति ? सूत्रमध्ये उच्चार
'क्षायोपशमिक' इति घ-पाठः। २'संसारस्थायिनाम्' इति ग-टी-पाठः । ३ 'वाक्यशेषमभिदधत' इत्युचितं प्रतिभाति । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org