________________
॥श्रीगौडीपार्श्वनाथाय नमः ॥ द्वितीयोऽध्यायः २
भा०-अत्राह-उक्तं भवता जीवादीनि तत्त्वानीति, तत्र अध्यायसम्बन्धः
या को जीवः कथंलक्षणो वेति ? । अत्रोच्यतेटी०-अत्राह-उक्तं भवतेत्यादिः सम्बन्धग्रन्थः, स चाध्यायप्रकरणसूत्रकृतस्त्रिधा तत्राध्यायकृतस्तावत् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' (अ० १, मू० १) इत्यव्यतिरिक्तकरणतयाऽऽत्मनः कर्तुस्ताद्रूप्येण निर्दिष्टानि मोक्षसाधनानि, अधुना तान्येवानेककर्मोपशमादिकारणकलापजन्यानि परिस्फुटविविक्तहेतुभाञ्जि प्रकाशयन्नाह-औपशमिक इत्यादि । तथाऽनुयोगद्वारप्रकरणप्रस्तावे निर्देशादिमूत्रव्याख्यायामुक्तम् , तद्यथा निर्देशः। को जीवः ? औपशमिकादिभावयुक्तो द्रव्यं जीवः, ते चामी जीवस्य औपशमिकादयो भावाः स्वतत्त्वेयत्ताभ्यामभिधीयन्ते-औपशमिक इत्यादि, तथा तत्त्वोद्देशः, तत्रादौ जीवपदार्थोपन्यासोऽकारि सूत्रकारेण, तत्स्वरूपावगमेच्छया च परः प्रश्नयति-को जीवः कथंलक्षणो वेति । किं पुनरत्र प्रयोजनं यदयमपहायाध्यायप्रकरणसम्बन्धी सूत्रकृतमेव सम्बन्धमाविश्वकार भाष्यकारः १ । उच्यते-स्वल्पवक्तव्यत्वात् , सम्बन्धानां चानेकरूपत्वाद् अतो यत् किश्चिद घटमानकं सम्बन्धान्तरमुपादाय भाष्यकृत् कृती जायते, नैवावश्यमशेषसम्बन्धाभिधानमावर्तव्यमिति कचिनियमः, यच्च भाष्यकारोपात्तसूत्रसम्बन्धव्यतिरिक्तसम्बन्धद्वयप्रदर्शनमाविष्कृतं तदन्योपनिबन्धकारशैल्या न त्वपूर्वसम्बन्धोद्धट्टनेच्छयेति ।। नन्वौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसानिपातिका भावा इति क्रमसङ्ख्यानियमः प्रावचनोऽयं स एषः, किमर्थ परमर्षिप्रणीतप्रवचनन्यस्तक्रमसङ्ख्याभेदः सूत्रकारेणाकारि । अत्रोच्यते-क्रमभेदस्तावल्लाघवार्थमाश्रितः, कथम् ? ओपशमिकभेदद्वयमधीत्य क्षायिकभेदपाठे चशब्दानुकृष्टौ च पूर्वको द्वावित्येवं नवभेदमवदत् क्षायिकम् , ननु प्रवचनक्रमेऽप्यौपशमिकक्षायिकावनन्तराविति न कश्चिद् विशेषः अस्ति, विशेषश्वशब्देन, किमनन्तरभेदद्वयाकर्षणमुतौदयिककविंशतिराकृष्यत इति सन्देहः, नन्वनन्तरभेदद्वयमेवाभिसम्भन्त्स्यते न व्यवहितम् , तदेतदेतावद् व्याख्यानमल्पधियः क्रशयन्ति गौरवं च जायते, तसादस्तु क्रमभेदः, अपिच-स्वल्पकालस्वामित्वादिविशेषादप्यौपशमिकादियुज्यते क्रमः, आन्तौहर्तिकत्वादल्पकाल औपशमिकः, अल्पस्वामिकश्वायम् , यतो न खलु बहुविधाः प्राणिनः प्राप्नुवन्ति तादृशं परिणति विशेषम् , तदनन्तरं क्षायिकः, तस्मात् सामान्यभेदत्वाद् बहुतरकालस्वामित्वाच, ततः क्षायोपरामिको बहुतरभेदकालस्वामित्वाच, ततः औ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org