________________
१३७
सूत्रं १]
स्वोपज्ञभाष्य-टीकालङ्कृतम् यिकः पूर्वस्वामिसाधर्म्यात् तदन्यकर्माश्रयत्वाच, ततः पारिणामिको महाविषयत्वादत्यन्तभेदाच पूर्वकेभ्य इति । सानिपातिकोऽपि लाघवैषिणा पृथक नोपात्तः,मिश्रग्रहणादेव प्रतिलब्धः, यत एषामेवौपशमिकादीनां द्विकादिसंयोगेन सान्निपातिको निष्पद्यते षड्विंशतिविकल्पः, तत्रैकादश विरोधित्वादसम्भवतस्त्यक्ता विकल्पाः, पञ्चदशोपात्ताः प्रशमरतौ सम्भविनः, “षष्ठश्च सान्निपातिक इत्यन्यः पञ्चदशभेदः" (प्रशम०प०१९७) इति वचनात् ,ते च विकल्पाः पञ्चदश औदयिकक्षायोपशमिकपारिणामिकास्त्रयोऽपि युगपदेकस्मिन् निपतन्ति जन्तौ, नारकतिर्यअनुष्यदेवगतिभेदेन चैते चत्वारो विकल्पाः, तथौदयिकौपशमिकक्षायोपशमिकपारिणामिकाः कचिदकृतत्रिपुञ्जोपशमसम्यक्त्वसद्भावाद गतिभेदेनैव चत्वारो विकल्पाः, पुनरौदयिकक्षायिकक्षायोपशमिकपारिणामिकाः कचित क्षायिकसद्भावात् श्रेणिकादिवद् गतिभेदतः, पुनश्चौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकाः दर्शनसप्तकवर्ज समस्तमोहनीयोपशमाच्छेषकर्मक्षयोपशमादित्वे सति मनुष्यगतावेवोपशमश्रेणिसद्भावे सत्येको विकल्पः, तथा औदयिकक्षायिकपारिणामिका एक एव भङ्गः, केवलिनो मनुष्यत्वकैवल्यजीवत्वाप्तेः, तथा क्षायिकपारिणामिकावेको भङ्गः, सिद्धे केवलसम्यक्त्वादिजीवत्वतः, पञ्चदश सानिपातिका भावभेदाः पञ्चकचतुष्कत्रिकद्विकसंयोगनिष्पन्नाः चतुरादिगतिभेदैमिश्रग्रहणाल्लब्धाः, मिश्रग्रहणेन च सानिपातिकः संयोगमात्रं परिगृह्यते, न क्षयोपशमाविति, कृतसमासयोश्च पूर्वयोनिर्देश उत्पत्तिविगमकालसाम्यात् संहतोत्तरकारणत्वाच्च, औपशमिकक्षायिका हि संहितौ मिश्रस्य कारणीभवतः, मिश्रे चासमासकरणं स्वामिबाहुल्यप्रतिपिपादयिषयाऽकारि, पूर्वभावद्वयवर्तिभ्यो जीवेभ्यो भूयिष्ठाः क्षायोपशमिकभावभाजः प्राणिनः, चरमयोः पृथक्करणं जीवाजीवसाधारणत्वख्यापनार्थम् , पूर्वकास्त्रयो जीवानामेव, इतरौ तु साधारणौ, समासश्चावियोगप्रचिकाशयिषयाऽनयोद्वयोरपि । अत्र चाद्यास्त्रयो भावाः कर्मविधातापेक्षाः प्रादुःप्यन्ति, बहलरजोवितानविघाते सति तिग्मरश्मेर्दीधितिकलापोत्पत्तिवत् , स पुनर्विघातो द्विविधःस्ववीयापेक्षो देशक्षयः कर्मणः सर्वक्षयश्च, कर्मव्यापारापेक्षश्चतु(इत्य?)र्थः, स्वोपात्तकर्मोदयात गत्यादयो भावाः समुपजायन्त आत्मनः सुरापानजनितनृत्यादिविकारवत् , मदोद्रेकानत्यति हसति रोदति गायति क्रुध्यति च यथा शीलवानपि तथा गत्यादिकोद्रेकाज्जीवस्तां तां विक्रियां प्रतिपद्यते गतिकषायादिकाम् । पारिणामिकस्तु निर्निमित्तः, स्वार्थे प्रत्ययविधानात् , परिणाम एव पारिणामिको राक्षसवदिति॥
अधुना भाष्यमनुस्रियते-अत्रेति । द्वितीयाध्यायावसरे शिष्य आह-प्रथमाध्यायेभिहितं भवता जीवादीनि सप्त तत्त्वानि, तत्प्रतिपत्तिः सम्यक्त्वम्, इतिशब्दः शब्दपदार्थः, कः ? उक्तमात्रस्मरणात् तत्रेति तेषु तत्त्वेषु निर्धार्यतामादावुपन्यस्तो जीवः क इति किंस्वरूपः, किंसतत्त्वः, किमसौ द्रव्यं, गुणः, कर्मेति सन्दिहानस्य प्रश्नः, कथंलक्षणो वेति द्वितीयः, प्रश्नः कथमिति केन प्रकारेण किमनपायिना सता लक्षणेन सर्वास्ववस्थासु गम
१' वृत्त्यादि ' इति क-ख-पाठः ।
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org