SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सूत्रं ३५] स्वोपज्ञभाष्य-टीकालङ्कृतम् १३५ तत् तथा, एतदाह-लौकिकविषयातीताः लौकिकानां-वैशेषिकादीनां विषयाः-शास्त्राणि तान्यतीता:-अतिक्रान्ताः, न सन्ति तेष्वित्यर्थः ॥ अथ यथा ते वैशेषिकादयो नालोचयन्त्येभिर्वस्तु तथाऽत्रापि किमाश्रयते उत नेति ? उच्यते-न तथा नालोचनीयं वस्तु, किन्त्वालोचनीयमेवेति, एतदाह-तत्त्वज्ञानार्थमधिगम्याः तत्त्वं-सद्रूपं सर्वदोषरहितं यज्ज्ञानं तत् तत्त्वज्ञानं तत्त्वज्ञानाय-तत्त्वज्ञानार्थ-तत्त्वज्ञानप्रयोजनार्थम् अधिगम्या:-- ज्ञेयाः। एतत् कथयति-समस्तनयसामग्रया आलोच्यमानं वस्तु सुधियां प्रीतिमाधिनोति. अन्यथा यथावस्तु संवादो दुःखेनापाद्येत, यत एकनयमतावलम्बिनां वस्तुस्वरूपसम्पादने सामर्थ्याभावात् समग्रया नयविचारणया वस्तुस्वरूपप्रतिपादनं सुकरमवगतस्याद्वादसद्भावैरिति ॥ ५ ॥ ३५ ॥ ग्रन्थानमङ्कतः ४३५९ इति श्रीतत्त्वार्थाधिगमेहत्प्रवचनसङ्ग्रहे भाष्यानुसारिण्यां तत्त्वार्थटीकायां प्रथमोऽध्यायः ॥१॥ ॥ इति प्रथमोऽध्यायः॥ UN Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy