________________
१३२ तत्वार्थाधिगमसूत्रम्
[ अध्यायः १ इत्यनेन, अतः सङ्ग्रहो बहुवचनान्तानेव विकल्पानाश्रयति, शेषास्तु नया एकवचनबहुवचनान्तानप्याश्रयन्तीत्येतदाह-सर्वाकारितग्राहिण इति । सर्ववचनैरेकवचनादिभिराकारितानेतान् विकल्पान् गृह्णन्ति तच्छीलाच सवोकारितग्राहिण इति । सम्प्रति ग्रन्थगौरवं मन्यमान एकत्र च विकल्पानां दार्शतत्वादन्यत्र सुखेन ज्ञास्यतीत्येतदतिदिशति—एवं सर्वभावेष्वित्यादिना । सर्वभावेषु-सर्वार्थेषु धर्मास्तिकायादिषु नयवादानुगम इति नयवादेनानुगम-अनुसरणं-निभालनं कार्य तत्त्वान्वेषिणा पुंसा॥ एवं तावत् प्रमेयेण नयानां विचार : कृतः । सम्प्रति प्रमेयपरिच्छेदकेषु प्रमाणेषु को नयः कथं प्रवर्तते इत्यस्मिन्नवसरे पर आह
भा०-अनाह-अथ पञ्चानां सविपर्ययाणां कानि को नयः समाश्रयत इति ? । अत्रोच्यते
टी०-अथ पञ्चेत्यादि । अथेत्येतस्माद् विचारादनन्तरं पञ्चानां मत्यादीनां ज्ञानाज्ञानेषु ज्ञानानां ज्ञेयस्वतत्त्वतया ग्राहकाणां सविपर्ययाणामिति सह विपर्यनयविचार येण अज्ञानस्वभावेन यानि वर्तन्ते तेषां सविपर्ययाणां कानि मत्यादीनि को नयो नैगमादिः श्रयते-अभ्युपगच्छति ? । अत्रोच्यते
भा०-नैगमादयस्त्रयः सर्वाण्यष्टौ श्रयन्ते, ऋजुसूत्रनयो मतिज्ञानमत्यज्ञानवर्जानि षट् ॥
टी.-नैगमादिनयास्त्रयः-नैगमसङ्ग्रहव्यवहाराः सर्वाणि निरवशेषाणि, कियन्तीति चेदुच्यते-अष्टौ, मतिज्ञानं, मत्यज्ञानं, श्रुतज्ञानं, श्रुताज्ञानं, अवधिज्ञानं, विभङ्गज्ञानं, मनःपर्यायज्ञानं, केवलज्ञानमष्टमम् । एतान्यष्टावपि यतोऽर्थे परिच्छिन्दन्ति, अतोऽभ्युपगच्छन्त्यष्टावपि । ऋजुसूत्रः पुनः षडेषां मध्ये श्रयते, मतिज्ञानमत्यज्ञानवर्जानि षट्, मतिं मत्यज्ञानं च नाभ्युपैति ॥
भा०-अत्राह-( अथ ) कस्मात् मतिं सविपर्ययां न श्रयत इति । अनोच्यते-श्रुतस्य सविपर्ययस्योपग्रहत्वात् , शब्दनयस्तु द्वे एव श्रुतज्ञानकेवलज्ञाने श्रयते ॥
टी-अत्राह-अथ कस्मात् मतिं सविपर्ययामिति मत्यज्ञानसहितामित्यर्थः न श्रयते नेच्छतीति । अत्रांच्यते-यस्मान्मतिमत्यज्ञाने श्रुतज्ञानस्य सविपर्ययस्येति श्रुताज्ञानसहितस्य उपग्रहं कुरुतः। कथमिति चेदुच्यते यदेतदिन्द्रियजं चक्षुरादिभ्य उपजातं तद् हि अवग्रहणमात्रेण प्रवर्तमानं न वस्तुनो निश्चयं कर्तुमलम् , यदा श्रुतज्ञानेनासावालोचितोऽर्थो भवति तदा यथावनिश्चीयते इति, तस्मात् तदेवाभ्युपगन्तव्यं श्रुतज्ञानं, किं मतिज्ञानेन ? इत्येवं श्रुतस्योपग्रहकरत्वात् न मतिज्ञानं सविपर्ययमाश्रीयते । शब्दनयस्तु भावार्थावलम्बी दे एव नान्यत् ताभ्यामित्युक्तम्, के ते ? उच्यतेश्रुतज्ञानकेवलज्ञाने । अत्र शब्दमते परोऽसूयया ब्रूते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org