________________
सूत्रं ३५ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
भा०- अत्राह- अथ कस्मान्नेतराणि श्रयत इति ? । अत्रोच्यते-मत्यवधिमनः पर्यायाणां श्रुतस्यैवोपग्राहकत्वात्, चेतनाज्ञस्वाभाव्याच्च सर्वजीवानां नास्य कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते । तस्मादपि विपर्ययान न श्रयत इति । अतश्च प्रत्यक्षानुमानोपमानाप्तवचनानामपि प्रामाण्यमभ्यनुज्ञायत इति ॥
"
टी० - अथ कस्मान्नेतराणि मत्यादीनि श्रयते ? । अत्रोच्यते-मत्यवधिमनः पर्यायाणां श्रुतस्यैवागमानुरक्तस्य उपग्राहकत्वाद् - उपकारकत्वात् यतो मत्याद्यालोचितोऽर्थः न मत्यादिभिः शक्यः प्रतिपादयितुं सूकत्वान्मत्यादिज्ञानानाम्, अतस्तैरालोचितोऽप्यर्थः पुनरपि श्रुतज्ञानेनैवान्यस्मै स्वपरप्रत्यायकेन प्रतिपाद्यते, तस्मात् तदेवालम्बितुं युक्तं, नेतराणि । केवलज्ञानं तु यद्यपि मूकं तथाप्यशेषार्थपरिच्छेदात् प्रधानमितिकृत्वाऽवलम्ब्य त एव, तथा विपर्ययं नाभ्युपैत्यस्मात् चेतनाज्ञस्वाभाव्याच्चेत्यादि, चेतना - जीवत्वं परिच्छेदकत्वसामान्यं गृह्यते, ज्ञ इत्यनेन तु विशेषपरिच्छेदिता ग्राह्या, तयोश्चेतनाज्ञयोः स्वाभाव्यं तथाभवनं तस्माच्चेतनाज्ञस्वाभाव्यात् सर्वजीवानां पृथिवी कायिकादीनां न विद्यते तेषां कश्चित् प्राणी मिथ्यादृष्टिः - अयथार्थपरिच्छेदी, सर्वे प्राणिनः स्वस्मिन् स्वस्मिन् विषये परिच्छेदकत्वेन प्रवर्तमानाः स्पर्श स्पर्श इत्येवं परिच्छिन्दन्ति रसं च रस इत्यादि, अज्ञो वा अज्ञानी वा, न कस्यचित् प्राणिनो ज्ञानमविद्यमानं अस्य नयस्य मतेन । यथाऽभिहितम्'सव्वजीवापि य णं अक्खरस्स अणंतो भागो निच्चुग्घाडितओ" (नन्दी० सू० ४२), अतः सर्वे सम्यग्दृष्टयः सर्वे च ज्ञानिनः, अतो विपर्ययो नास्ति मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूप इति, अतः - अभावादेव विपर्ययान् मत्यज्ञानादीन् नाश्रयते यतश्च छद्मस्थज्ञानानि सर्वाण्येव श्रुतेऽन्तर्भवन्ति, अतो यत् 'प्रत्यक्षमन्यत्' (अ० १ सू०१२ ) इत्यस्मिन् सूत्रे प्रतिज्ञातं नयवादान्तरेण तु यथामतिश्रुतविकल्पजानि भवन्ति तथा पुरस्ताद् वक्ष्याम इति तदुपपन्नम्, अस्मिथपपन्ने सर्वप्राणिनां सम्यग्दृष्टित्वात् ज्ञानित्वाश्च सर्वज्ञानानां प्रामाण्यम्, तदाह-अतश्च प्रत्यक्षानुमावपि प्रामाण्यमभ्युपगतं भवति । उक्तं चैषां प्राक् स्वरूपं प्रत्यक्षादीनां प्रमाणनयविचारमनन्तरं सकलं चाध्यायार्थमुपसंहरन् कारिकाः पपाठ
भा० - आह चअध्यायार्थोपसंहारः विज्ञायैकार्थपदान्यर्थपदानि च विधानमिष्टं च ।
१ 'विपर्ययो न श्रयत' इति ग-पाठः ।
२ सर्वजीवानामपि चाक्षरस्यानन्तो भागो नित्योद्घाटितः ।
३ ' श्रुतेन भवन्ति' इति ग-पाठः ।
Jain Education International
१३३
विन्यस्य परिक्षेपात्, नयैः परीक्ष्याणि तत्त्वानि ॥ १ ॥ - आर्या ज्ञानं सविपर्यासं, त्रयः श्रयन्त्यादितो नयाः सर्वम् । सम्यग्दृष्टेर्ज्ञानं, मिथ्यादृष्टेर्विपर्यासः ॥ २ ॥ - आर्या ऋजुसूत्रः षट् श्रयते, मतेः श्रुतोपग्रहादनन्यत्वात् । श्रुतकेवले तु शब्दः, श्रयते नान्यच्छ्रुताङ्गत्वात् ॥ ३ ॥ - आर्या
For Private & Personal Use Only
www.jainelibrary.org