________________
सूत्रं ३५]
स्वोपज्ञभाष्य-टीकालङ्कृतम् अजीवां नोअजीवो जीवौ नोजावा अजीवी नोअजीवी इत्येकत्वद्वित्वाकारितेषु शून्यम् । कस्मात् १ ॥
टी०-समग्रार्थेत्यादि । समग्रः-सम्पूर्णः अर्थो-वस्तु सम्पूर्ण वस्तु समग्रार्थः तं ग्रहीतुं शीलमस्य समग्रार्थग्राही, सम्पूर्णमेव हि वस्तु गृह्णातीत्ययं नयः, न देशं प्रदेशं वा, समग्रार्थग्राहिणोभावस्तथावर्तिता समग्रार्थग्राहित्वम् ,अतोनानेनैवम्भूतनयेन देशप्रदेशौ स्थूलसूक्ष्मावयवात्मकौ गृह्यते । एवं तावच्चत्वारो विकल्पा एकवचनेन दर्शिताः, यथा चैकवचनेन दर्शिताः एवं द्विवचनेन चत्वारो विकल्पा नेयाः, जीवौ १ नोजीवौ २ अजीवौ ३ नोअजीवौ ४, तथा च बहुवचनेनापि चत्वार एव, जीवाः १ नोजीवाः २ अजीवाः ३ नोअजीवा ४ नेयाः, एकवचनप्रतिपत्त्येव, केवलं तु द्विवचन बहुवचनं वा विशेष इत्येतदाह-एवं जीवा जीवा इति । इतिशब्द आद्यार्थः, द्वित्वबहुत्वाकारितेषु-द्विवचनबहुवचनाभ्यामुच्चारितेषु एवमेवाभ्युपगमो नैगमादीनाम् ॥ अथैतांश्चतुरो विकल्पान् सङ्ग्रहनयः कथमभ्युपैतीति? । उच्यतेसर्वसङ्ग्रहेणेत्यादि । सर्वसङ्ग्रहेण सामान्यवस्तुग्राहिणा एकवचन द्विवचनान्ता विकल्पा नाभ्युपगम्यन्ते, तांश्च विकल्पान् दर्शयति—जीवी नोजीव इत्यादिना । एकद्विवचनान्तेषूच्चरितेषु शून्यं भवतीति, नास्यैवं काचित् प्रतिपत्तिरस्तीत्यर्थः। कस्मानास्तीति चेत् ? उच्यते
भा०-एष हि नयः सङ्ख्यानन्त्याज्जीवानां बहुत्वमेवेच्छति यथार्थग्राही। शेषास्तु नयाः जात्यपेक्षमेकस्मिन् बहुवचनत्वम्, बहुषु च बहुवचनं सर्वाकारितग्राहिण इति । एवं सर्वभावेषु नयवादानुगमः कार्यः॥
टी-एष हीत्यादि । एषः-सङ्ग्रहो यस्मात् सङ्ख्याया जीवगताया आनन्त्यं प्रतिपद्यते, जीवानां पञ्चगतिवर्तिनां बहुत्वमेवेतिकृत्वा बहुवचनान्तानेव विकल्पान् समाश्रयते । अयं विशेषोऽनेन प्रतिपन्नो देशसङ्ग्रहव्यवहारादिभ्यः, भावना तु तद्वदेव, जीवा इत्युक्ते पञ्चस्वपि गतिषु वर्तमानानाश्रयति, नोजीवा इत्यजीवास्तेषां च देशप्रदेशानिति, अजीवा इति तु अजीवद्रव्याणि पुद्गला इति, नोअजीवा इति जीवानेव तेषां च देशप्रदेशानिति । अस्यैव बहुवचनान्ता प्रतिपत्तिः, शेषास्तु नैगमादयो नया एकद्विबहुवचनान्तानप्याश्रयन्ति एतान् विकल्पान्, यदा च जीवशब्दस्य एकोऽर्थो वाच्यो भवति तदैकत्वादेकवचनम् , यदापि च सामान्यं वाच्यं तदापि चैकत्वात् एकवचनप्राप्तौ सत्यां बहुवचनमन्विच्छन्ति नैगमादयः । कथमिति चेत् ? उच्यते-जात्यपेक्षं जातिः-सामान्यरूपा तामपेक्षते यत् तज्जात्यपेक्षं बहुवचनम् , एकस्मिन्नपि पदार्थेऽभिधेये "जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्" (पा०अ०१,पा०२,सू०५८) इत्येनेन लक्षणेन । यदा पुनबेहव एव अभिधेया जीवशब्दस्य प्राणिनस्तदा नैव बहुवचनं “जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्" उत्पादयन्ति, किन्तु लक्षणान्तरेण, तल्लक्षणं दर्शयति-"बहुषु चैव बहुवचनं भवति"
१ 'न्यस्तं कस्मात्' इति क-न-पाठः। २ 'नयवादाधिगमः' इति घ-पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org