________________
सूत्रं ३५]
स्वोपज्ञभाष्य-टोकालङ्कृतम् समः-तुल्यः, यथा लौकिका विशेषैरेव घटादिभिर्व्यवहरन्ति तथाऽयमपीत्यतस्त त्समः, उपचारप्राय इति । उपचारो नामान्यत्र सिद्धस्यार्थस्यान्यत्राध्यारोपो यः, यथा कुण्डिका स्रवति, पन्था गच्छति, उदके कुण्डिकास्थे स्रवति कुण्डिका स्रवतीत्युच्यते, पुरुषे च गच्छति पन्था गच्छतीति । एवमुपचारप्राय उपचारबहुल इत्यर्थः । विस्तृतो--विस्तीर्णोऽनेकोऽर्थो ज्ञेयो यस्य स विस्तृतार्थः अध्यवसायविशेषो व्यवहार इति निगद्यते ॥
ऋजुसूत्रलक्षणव्याचिख्यासया आह-- ऋजुसूत्रलक्षणम् भा०–सतां साम्प्रतानामर्थानामभिधानपरिज्ञानमृजुसूत्रः॥
टी-सतामित्यादि।सतां-विद्यमानानां, न खपुष्पादीनामसतां, तेषामपि साम्प्रतानां--वर्तमानानामितियावत् अर्थानां घटादीनां अभिधानं-शब्दः परिज्ञानम्-अवबोधो विज्ञानमितियावत् , अभिधानं च परिज्ञानं चाभिधानपरिज्ञानं यत् स भवति ऋजुसूत्रः। एतदुक्तं भवति-तानेव व्यवहारनयाभिमतान् विशेषानाश्रयन् विद्यमानान् वर्तमानक्षणवर्तिनोऽभ्युपगच्छन्नभिधानमपि वर्तमानमेवाभ्युपैति नातीतानागते, तेनानभिधीयमानत्वात् कस्यचिदर्थस्य, तथा परिज्ञानमपि वर्तमानमेवाश्रयति, नातीतमागामि वा, तत्स्वभावानवधारणात् , अतो वस्त्वभिधानं विज्ञानं चात्मीयं वर्तमानमेवान्विच्छन्नध्यवसाय: स ऋजुमूत्र इति ॥
शब्दनयस्य त्रिभेदस्य लक्षणप्रचिकाशयिषया आहशब्दलक्षणम् भा०-यथार्थाभिधानं शब्दः ॥ - टी०-यथेति । येन कारणेन भावरूपेण नामस्थापनाद्रव्यवियुतेनार्थो घटादियथार्थः तस्याभिधानं शब्दः यथार्थाभिधानं, तदाश्रयी योऽध्यवसायः स शब्दनयतयाऽभिधीयते । वर्तमानमात्मीयं विद्यमानं भावघटमेवाश्रयति नेतरानिति ॥
इदानीमस्य शब्दनयस्य यत् पुरस्तात् त्रैविध्यं दर्शितं'शब्द-स्त्रिभेदः साम्प्रतः, समभिरूढ एवम्भूत' इति, अस्याद्यभेदलक्षणोदविभावयिषया आह
साम्प्रतलक्षणम् भा०-नामादिषु प्रसिद्धपूर्वाच्छब्दादर्थे प्रत्ययः साम्प्रतः ॥ ___टी-नामेत्यादि । नामस्थापनाद्रव्यभावेषु नम्यमाने वस्तुनि घटादौ स्थाप्यमाने वाऽऽकारात्मना द्रव्ये च गुणसंद्रावात्मके भावे च प्रतिविशिष्टपर्यायरूपे प्रसिद्धपूर्वोत् प्रसिद्धो-नितिः पूर्वमिति-संज्ञासंज्ञिसम्बन्धकाले प्रसिद्धोऽसौ घटादिशब्दोऽभिधानतया तेषां नामादीनामस्य घटादेरर्थस्यायं वाचक इत्येवं प्रसिद्धपूर्वाद वाच्यवाचकलक्षणसम्बन्धसङ्केतनाद् योग्यतालक्षणसम्बन्धावगतेर्वा, शब्दादिति, अभिधानात् नाम्न इतियावत् अर्थेअभिधेये यः प्रत्ययो-विज्ञानं स साम्प्रतो नयः । एतदुक्तं भवति-नामादिषु प्रतिविशिष्टवर्तमानपर्यायापन्नेष्वेव प्रसिद्धो वाचकतया यः शब्दस्तस्माच्छब्दात् भावाभिधा
१ 'लक्षणाचिख्यासया' इति ग-टी-पाठः। २'लक्षणान्विभावयिषया' इति पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org